Atharvaveda / 7 / 7 / 1
दितेः॑ पु॒त्राणा॒मदि॑तेरकारिष॒मव॑ दे॒वानां॑ बृह॒ताम॑न॒र्मणा॑म्। तेषां॒ हि धाम॑ गभि॒षक्स॑मु॒द्रियं॒ नैना॒न्नम॑सा प॒रो अ॑स्ति॒ कश्च॒न ॥1॥
Veda : Atharvaveda | Kand : 7 | Sukta : 7 | Paryay : | Mantra No : 1
In English:
Seer : atharvaa | Devta : aditiH | Metre : aarShii jagatii | Tone :
Subject : English Translation will be uploaded as and when ready.
Verse : diteH putraaNaamaditerakaariShamava devaanaa.m bRRihataamanarmaNaam. teShaa.m hi dhaama gabhiShaksamudriya.m nainaannamasaa paro asti kashchana .1.
Component Words : diteH . putraaNaam . aditeH . akaariSham . ava . devaanaam . bRRihataam . anarmaNaam . teShaam . hi . dhaama . gabhi.asak . samudriyam . na . enaan . namasaa . paraH . asti . kaH . chana .8.1.
In Hindi:
ऋषि : अथर्वा | देवता : अदितिः | छन्द : आर्षी जगती | स्वर :
विषय : विद्वानों के गुणों का उपदेश।
पदपाठ : दिते॑: । पु॒त्राणा॑म् । अदि॑ते: । अ॒का॒रि॒ष॒म् । अव॑ । दे॒वाना॑म् । बृ॒ह॒ताम् । अ॒न॒र्मणा॑म् । तेषा॑म् । हि । धाम॑ । ग॒भि॒ऽसक् । स॒मु॒द्रिय॑म् । न । ए॒ना॒न् । नम॑सा । प॒र: । अ॒स्ति॒ । क: । च॒न ॥८.१॥
पदार्थ : (दितेः) दीनता से (पुत्राणाम्) शुद्ध करनेवाले वा बहुत बचानेवाले, (अदितेः) अदीनता के (देवानाम्) देनेवाले वा प्रकाश करनेवाले, (बृहताम्) बड़े गुणवाले, (अनर्मणाम्) हिंसा न करनेवाले वा अजेय (तेषाम्) उन पुरुषों के (धाम) धारण सामर्थ्य को (हि) ही (गभिषक्) गहराई से युक्त, (समुद्रियम्) [पार्थिव और अन्तरिक्ष] समुद्र में रहनेवाला (अव) निश्चय करके (अकारिषम्) मैंने जाना है, (कः चन) कोई भी (परः) शत्रु (एनान्) इनको (नमसा) [उनके] अन्न वा सत्कार के कारण (न) नहीं (अस्ति) पाता है ॥१॥"
भावार्थ : टिप्पणी :१−(दितेः) दीङ् क्षये-क्तिन्। दीनतायाः सकाशात् (पुत्राणाम्) अ० १।११।५। पूङ् शोधे-क्त्र। पुत्रः पुरु त्रायते-निघ० २।११। पुरु+त्रैङ् रक्षणे-ड। पावकानां शोधकानाम्। बहुत्रातॄणाम् (अदितेः) षष्ठीरूपम्। अदीनतायाः (अकारिषम्) कॄ विज्ञाने-लुङ्। इति शब्दकल्पद्रुमः। विज्ञातवानस्मि (अव) निश्चयेन (देवानाम्) देवो दानाद्वा दीपनाद् वा-निरु० ७।१५। दातॄणां प्रकाशकानां वा (बृहताम्) गुणैर्महताम् (अनर्मणाम्) सर्वधातुभ्यो मनिन्। उ० ४।१४५। ऋ हिंसायाम्-मनिन्। अहिंसकानाम् अहिंसनीयानाम् (तेषाम्) प्रसिद्धानां पुरुषाणाम् (हि) एव (धाम) धारणसामर्थ्यम् (गभिषक्) सर्वधातुभ्य इन्। उ० ४।११८। इति गम्लृ गतौ-इन् मस्य भः+षञ्ज सङ्गे-क्विप्। गम्भीरतायुक्तम् (समुद्रियम्) समुद्राभ्राद् घः। पा०। ४।४।११८। इति समुद्र-घ। आन्तरिक्षे पार्थिवे वा समुद्रे भवम् (न) निषेधे (एनान्) पुरुषान् (नमसा) अन्नेन-निघ० २।७। सत्कारेण (परः) शत्रुः (अस्ति) अस ग्रहणे गतौ च। शपो लुक् छान्दसः। असति गृह्णाति गच्छति प्राप्नोति वा (कश्चन) कोऽपि ॥