Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 7 / 53 / 7

उद्व॒यं तम॑स॒स्परि॒ रोह॑न्तो॒ नाक॑मुत्त॒मम्। दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥7॥

Veda : Atharvaveda | Kand : 7 | Sukta : 53 | Paryay : | Mantra No : 7

In Hindi:

ऋषि : ब्रह्मा | देवता : आयुः, बृहस्पतिः, अश्विनौ | छन्द : अनुष्टुप् | स्वर :

विषय : विद्वानों के कर्त्तव्य का उपदेश।

पदपाठ : उत् । व॒यम् । तम॑स: । परि॑ । रोह॑न्त: । नाक॑म् । उ॒त्ऽत॒मम् । दे॒वम् । दे॒व॒ऽत्रा । सूर्य॑म् । अग॑न्म । ज्योति॑: । उ॒त्ऽत॒मम् ॥५५.७॥

पदार्थ : (तमसः) अन्धकार से (परि) पृथक् होकर (उत्तमम्) उत्तम (नाकम्) सुख में (उद् रोहन्तः) ऊपर चढ़ते हुए (वयम्) हमने (देवत्रा) प्रकाशमानों में (देवम्) प्रकाशमान, (उत्तमम्) उत्तम (ज्योतिः) ज्योतिःस्वरूप, (सूर्यम्) सबके प्रेरक सूर्य जगदीश्वर को (अगन्म) पाया है ॥७॥"

भावार्थ :

टिप्पणी :७−(उत्) उत्कर्षेण (वयम्) योगिनः (तमसः) अन्धकारात् (परि) पृथग्भूय (रोहन्तः) आरूढाः सन्तः (नाकम्) दुःखरहितं मोक्षसुखम् (उत्तमम्) सर्वोत्कृष्टम् (देवम्) प्रकाशमानं (देवत्रा) देवमनुष्यपुरुषपुरु०। पा–० ५।४।५६। सप्तम्यर्थे-त्रा। प्रकाशमानेषु (सूर्यम्) अ० १।३।५। लोकप्रेरकं परमात्मानम् (अग्नम्) वयं प्राप्तवन्तः (ज्योतिः) ज्योतीरूपं द्योतमानम् (उत्तमम्) ॥