Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 7 / 56 / 3

यतो॑ द॒ष्टं यतो॑ धी॒तं तत॑स्ते॒ निर्ह्व॑यामसि। अ॒र्भस्य॑ तृप्रदं॒शिनो॑ म॒शक॑स्यार॒सं वि॒षम् ॥ 3॥

Veda : Atharvaveda | Kand : 7 | Sukta : 56 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : अथर्वा | देवता : वृश्चिकादयः | छन्द : अनुष्टुप् | स्वर :

विषय : विष नाश का उपदेश।

पदपाठ : यत॑: । द॒ष्टम् । यत॑: । धी॒तम् । तत॑: । ते॒ । नि: । ह्व॒या॒म॒सि॒ । अ॒र्भस्य॑ । तृ॒प्र॒ऽदं॒शिन॑: । म॒शक॑स्य । अ॒र॒सम् । वि॒षम् ॥५८.३॥

पदार्थ : [हे मनुष्य !] (यतः) जहाँ पर (दष्टम्) काटा गया है और (यतः) जहाँ पर (धीतम्) [रुधिर] पिया गया है, (ते) तेरे (ततः) उसी [अङ्ग] से (अर्भस्य) छोटे (तृप्रदंशिनः) तीव्र काटनेवाले (मशकस्य) मच्छर के (अरसम्) निर्बल [किये हुए] (विषम्) विष को (निः) निकालकर (ह्वयामसि) हम वचन देते हैं ॥३॥"

भावार्थ :

टिप्पणी :३−(यतः) सप्तम्यर्थे तसिः। यस्मिन् देशे (दष्टम्) हिंसितम् (यतः) यस्मिन्नङ्गे (धीतम्) धेट् पाने-क्त। रुधिरं पीतम् (ततः) तस्मादङ्गात् (ते) तव (निः) निःसार्य (ह्वयामसि) कथयामः (अर्भस्य) अल्पस्य (तृप्रदंशिनः) तृप संदीपने प्रीणने च-रक्+दंश दंशने-णिनि। तीव्रदंशनशीलस्य (मशकस्य) मश ध्वनौ कोपे च−वुन्। कीटभेदस्य (अरसम्) निर्बलं कृतम् (विषम्) ॥