Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 7 / 68 / 2

इ॒दं ते॑ ह॒व्यं घृ॒तव॑त्सरस्वती॒दं पि॑तॄ॒णां ह॒विरा॒स्यं१॒॑ यत्। इ॒मानि॑ त उदि॒ता शम्त॑मानि॒ तेभि॑र्व॒यं मधु॑मन्तः स्याम ॥ 2॥

Veda : Atharvaveda | Kand : 7 | Sukta : 68 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : शन्तातिः | देवता : सरस्वती | छन्द : त्रिष्टुप् | स्वर :

विषय : सरस्वती की आराधना का उपदेश।

पदपाठ : इ॒दम् । ते॒ । ह॒व्यम् । घृ॒तऽव॑त् । स॒र॒स्व॒ति॒ । इ॒दम् । पि॒तृ॒णाम् । ह॒वि: । आ॒स्य᳡म् । यत् । इ॒मानि॑ । ते॒ । उ॒दि॒ता: । शम्ऽत॑मानि । तेभि॑: । व॒यम् । मधु॑ऽमन्त:। स्या॒म॒ ॥७०.२॥

पदार्थ : (सरस्वति) हे सरस्वती ! (इदम्) यह (यत्) जो (ते) तेरा (घृतवत्) प्रकाशयुक्त (हव्यम्) ग्राह्य कर्म है, और (इदम्) यह [जो] (पितॄणाम्) पिता समान माननीय विद्वानों के (आस्यम्) मुख पर रहनेवाला (हविः) ग्राह्य पदार्थ है और [जो] (ते) तेरे (इमानि) यह सब (शंतमानि) अत्यन्त शान्ति देनेवाले (उदिता) वचन हैं, (तेभिः) उनसे (वयम्) हम (मधुमन्तः) उत्तम ज्ञानवाले (स्याम) होवें ॥२॥"

भावार्थ :

टिप्पणी :२−(इदम्) प्रत्यक्षम् (ते) तव (हव्यम्) ग्राह्यं ज्ञानम् (घृतवत्) प्रकाशयुक्तम् (सरस्वति) विज्ञानवति विद्ये (इदम्) (पितॄणाम्) पितृसममाननीयानां विदुषाम् (हविः) ग्राह्यं कर्म (आस्यम्) आस्य-यत्, यलोपः। आस्ये मुखे भवम्। विधिवदभ्यस्तम् (यत्) (इमानि) (ते) तव (उदिता) वद व्यक्तायां वाचि-क्तः यजादित्वात् संप्रसारणम्। उक्तानि वचनानि (शंतमानि) अत्यर्थं सुखकराणि (तेभिः) (तैः) वचनैः (मधुमन्तः) उत्तमज्ञानयुक्ताः (स्याम) भवेम ॥