Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 7 / 79 / 2

अ॒हमे॒वास्म्य॑मावा॒स्या॒ मामा व॑सन्ति सु॒कृतो॒ मयी॒मे। मयि॑ दे॒वा उ॒भये॑ सा॒ध्याश्चेन्द्र॑ज्येष्ठाः॒ सम॑गच्छन्त॒ सर्वे॑ ॥ 2॥

Veda : Atharvaveda | Kand : 7 | Sukta : 79 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : अथर्वा | देवता : अमावस्या | छन्द : त्रिष्टुप् | स्वर :

विषय : परमेश्वर के गुणों का उपदेश।

पदपाठ : अ॒हम् । ए॒व । अ॒स्मि॒ । अ॒मा॒ऽवा॒स्या᳡ । माम् । आ । व॒स॒न्ति॒ । सु॒ऽकृ॒त॑: । मयि॑ । इ॒मे । मयि॑ । दे॒वा: । उ॒भये॑ । सा॒ध्या: । च॒ । इन्द्र॑ऽज्येष्ठा: । सम् । अ॒ग॒च्छ॒न्त॒ । सर्वे॑ ॥८४.२॥

पदार्थ : (अहम्) मैं (एव) ही (अमावास्या) अमावास्या [सबके साथ बसी हुई शक्ति] (अस्मि) हूँ, (मयि) मुझ में [वर्तमान होकर] (इमे) यह सब (सुकृतः) सुकर्मी लोग (माम्) लक्ष्मी में (आ वसन्ति) यथावत् वास करते हैं। (मयि) मुझ में (उभये) दोनों प्रकार के (सर्वे) सब (देवाः) दिव्य पदार्थ अर्थात् (साध्याः) साधने योग्य [स्थावर] (च) और (इन्द्रज्येष्ठाः) जीव को प्रधान रखनेवाले [जंगम] पदार्थ (सम्=समेत्य) मिलकर (आगच्छन्त) प्राप्त हुए हैं ॥२॥"

भावार्थ :

टिप्पणी :२−(अहम्) परमेश्वरः (एव) (अस्मि) (अमावास्या) म० १। सर्वैः सह निवासशीला शक्तिः (माम्) इन्दिरा लोकमाता मा-अमरः १।२९। लक्ष्मीम् (आ वसन्ति) उपान्वध्याङ्वसः। पा० १।४।४८। अधिकरणस्य कर्मता। समन्ताद् अवतिष्ठन्तं (सुकृतः) सुकर्माणः (मयि) (देवाः) दिव्यपदार्थाः (उभये) अ० ४।३१।६। द्विविधाः, चराचराः (साध्याः) अ० ७।५।१। साधनीयाः। स्थावराः (इन्द्रज्येष्ठाः) जीवप्रधानाः। जङ्गमाः (सम्) समेत्य (अगच्छन्त) प्राप्तवन्तः (सर्वे) समस्ताः ॥