Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 7 / 109 / 5

यो नो॑ द्यु॒वे धन॑मि॒दं च॒कार॒ यो अ॒क्षाणां॒ ग्लह॑नं॒ शेष॑णं च। स नो॑ दे॒वो ह॒विरि॒दं जु॑षा॒णो ग॑न्ध॒र्वेभिः॑ सध॒मादं॑ मदेम ॥ 5॥

Veda : Atharvaveda | Kand : 7 | Sukta : 109 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : बादरायणिः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर :

विषय : व्यवहारसिद्धि का उपदेश।

पदपाठ : य: । न॒: । द्यु॒वे । धन॑म् । इ॒दम् । च॒कार॑ । य: । अ॒क्षाणा॑म् । ग्लह॑नम् । शेष॑णम् । च॒ । स: । न॒: । दे॒व: । ह॒वि: । इ॒दम्। जु॒षा॒ण: । ग॒न्ध॒र्वेभि॑: । स॒ध॒ऽमाद॑म् । म॒दे॒म॒ ॥११४.५॥

पदार्थ : (यः) जिस [परमेश्वर] ने (नः) हमारे (द्युवे) आनन्द के लिये (इदं धनम्) यह धन, और (यः) जिसने (अक्षाणाम्) व्यवहारों का (ग्लहनम्) ग्रहण (च) और (शेषणम्) विशेषपन [ब्राह्मणपन, क्षत्रियपन, वैश्यपन और शूद्रपन] (चकार) बनाया है। (सः) वह (देवः) व्यवहारकुशल [परमेश्वर] (नः) हमारे (इदम्) इस (हविः) दान [भक्तिदान] को (जुषाणः) स्वीकार करनेवाला [हो, कि] (गन्धर्वेभिः) विद्या वा पृथिवी के धारण करनेवाले [मनुष्यों] के साथ (सधमादम्) परस्पर आनन्द (मदेम) हम भोगें ॥५॥"

भावार्थ :

टिप्पणी :५−(यः) परमेश्वरः (नः) अस्मदीयाय (द्युवे) दिवु मोदे-क्विप्। आनन्दाय (धनम्) (इदम्) (चकार) कृतवान् (यः) (अक्षाणाम्) अ० ६।७०।१। व्यवहाराणाम् (ग्लहनम्) रस्य लः। ग्रहणम् (शेषणम्) शिष्लृ विशेषणे-ल्युट्। विशेषणम्। गुणप्रकाशनं यथा ब्राह्मणत्वं क्षत्रियत्वं वैश्यत्वं शूद्रत्वं च (च) (सः) (नः) अस्माकं (देवः) व्यवहारकुशलः परमेश्वरः (हविः) दानम्। आत्मसमर्पणम् (इदम्) वक्ष्यमाणम् (जुषाणः) सेवमानः। भवतु इति शेषः (गन्धर्वेभिः) अ० २।१।२। गोर्विद्यायाः पृथिव्या वा धारकैः पुरुषैः (सधमादम्) परस्परानन्दम् (मदेम) हृष्येम ॥