Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 2 / 10

यत्ते॑ नि॒यानं॑ रज॒सं मृत्यो॑ अनवध॒र्ष्य᳡म्। प॒थ इ॒मं तस्मा॒द्रक्ष॑न्तो॒ ब्रह्मा॑स्मै॒ वर्म॑ कृण्मसि ॥ 10॥

Veda : Atharvaveda | Kand : 8 | Sukta : 2 | Paryay : | Mantra No : 10

In Hindi:

ऋषि : ब्रह्मा | देवता : आयुः | छन्द : अनुष्टुप् | स्वर :

विषय : कल्याण की प्राप्ति का उपदेश।

पदपाठ : यत् । ते॒ । नि॒ऽयान॑म् । र॒ज॒सम् । मृत्यो॒ इति॑ । अ॒न॒व॒ऽध॒र्ष्य᳡म् । प॒थ: । इ॒मम् । तस्मा॑त् । रक्ष॑न्त: । ब्रह्म॑ । अ॒स्मै॒ । वर्म॑ । कृ॒ण्म॒सि॒ ॥२.१०॥

पदार्थ : (मृत्यो) हे मृत्यु ! (यत्) जो (ते) तेरा (रजसम्) संसारसम्बन्धी (नियानम्) मार्ग (अनवधर्ष्यम्) अजेय है, (तस्मात्) उस (पथः) मार्ग से (इमम्) इस [पुरुष] को (रक्षन्तः) बचाते हुए हम (अस्मै) इस [पुरुष] के लिये (ब्रह्म) ब्रह्म [वेदविद्या का परमेश्वर] को (वर्म) कवच (कृण्मसि) बनाते हैं ॥१०॥"

भावार्थ :

टिप्पणी :१०−(यत्) (ते) तव (नियानम्) निरन्तरगमनम्। मार्गः (रजसम्) अर्शआद्यच्। लोकसंबद्धम् (मृत्यो) (अनवधर्ष्यम्) ऋहलोर्ण्यत्। पा० ३।१।१२४। ञिधृषा प्रागल्भ्ये-ण्यत्। धर्षितुं जेतुमशक्यम्। अजेयम् (पथः) मार्गात् (इमम्) पुरुषम् (तस्मात्) प्रसिद्धात् (रक्षन्तः) पालयन्तः (ब्रह्म) परिवृढं वेदं परमेश्वरं वा (अस्मै) पुरुषाय (वर्म) कवचम् (कृण्मसि) कृण्मः। कुर्मः ॥