Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 2 / 19

यद॒श्नासि॒ यत्पि॑बसि धा॒न्यं᳡ कृ॒ष्याः पयः॑। यदा॒द्यं१॒॑ यद॑ना॒द्यं सर्वं॑ ते॒ अन्न॑मवि॒षं कृ॑णोमि ॥ 19॥

Veda : Atharvaveda | Kand : 8 | Sukta : 2 | Paryay : | Mantra No : 19

In Hindi:

ऋषि : ब्रह्मा | देवता : आयुः | छन्द : उपरिष्टाद्बृहती | स्वर :

विषय : कल्याण की प्राप्ति का उपदेश।

पदपाठ : यत् । अ॒श्नासि॑ । यत्। पिब॑सि । धा॒न्य᳡म् । कृ॒ष्या । पय॑: । यत् । आ॒द्य᳡म् । यत् । अ॒ना॒द्यम् । सर्व॑म् । ते॒ । अन्न॑म् । अ॒वि॒षम् । कृ॒णो॒मि॒ ॥२.१९॥

पदार्थ : [हे मनुष्य !] (यत्) जो तू (कृष्याः) खेती का [उपजा] (धान्यम्) धान्य (अश्नासि) खाता है, और (यत्) जो तू (पयः) दूध वा जल (पिबसि) पीता है। (यत्) चाहे (आद्यम्) पुराना [धरा हुआ], (यत्) चाहे (अनाद्यम्) नवीन [पुराने से भिन्न] हो, (सर्वम्) वह सब (अन्नम्) अन्न (ते) तेरे लिये (अविषम्) निर्विष (कृणोमि) करता हूँ ॥१९॥"

भावार्थ :

टिप्पणी :१९−(यत्) यत्किञ्चित् (अश्नासि) खादसि (यत्) (पिबसि) (धान्यम्) अन्नम् (कृष्याः) कृषिकर्मणः प्राप्तम् (पयः) दुग्धं जलं वा (यत्) यदि वा (आद्यम्) दिगादिभ्यो यत्। पा० ४।३।५४। आदि-यत्। आदौ भवम्। प्रथमम्। पुराणम्। यद्वा अद भक्षणे-ण्यत्। अदनीयम्। सुखेन भक्षणीयम्-यथा सायणः (यत्) अनाद्यम्-आद्येन प्रथमेन भिन्नम्। नवीनम्। यद्वा अदनानर्हं कठिनद्रव्यम्, अत्यन्तकटुतिक्तत्वाद् वा अनाद्यम्-इति सायणः (सर्वम्) (ते) तुभ्यम् (अन्नम्) जीवनसाधनं भक्षणीयं वा द्रव्यम् (अविषम्) निर्विषम्। नीरोगम् (कृणोमि) करोमि ॥