Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 2 / 21

श॒तं ते॒ऽयुतं॑ हाय॒नान्द्वे यु॒गे त्रीणि॑ च॒त्वारि॑ कृण्मः। इ॑न्द्रा॒ग्नी विश्वे॑ दे॒वास्तेऽनु॑ मन्यन्ता॒महृ॑णीयमानाः ॥ 21॥

Veda : Atharvaveda | Kand : 8 | Sukta : 2 | Paryay : | Mantra No : 21

In Hindi:

ऋषि : ब्रह्मा | देवता : आयुः | छन्द : सतःपङ्क्तिः | स्वर :

विषय : कल्याण की प्राप्ति का उपदेश।

पदपाठ : श॒तम् । ते॒ । अ॒युत॑म् । हा॒य॒नान् । द्वे इति॑ । यु॒गे इति॑ । त्रीणि॑ । च॒त्वारि॑ । कृ॒ण्म॒: । इ॒न्द्रा॒ग्नी इति॑ । विश्वे॑ । दे॒वा: । ते । अनु॑ । म॒न्य॒न्ता॒म् । अहृ॑णीयमाना: ॥२.२१॥

पदार्थ : [हे मनुष्य !] (ते) तेरे लिये (शतम्) सौ और (अयुतम्) दश सहस्र (हायनान्) वर्षों को [क्रम से] (द्वे युगे) दो युग, (त्रीणि) तीन [युग] और (चत्वारि) चार [युग] (कृण्मः) हम करते हैं। (इन्द्राग्नी) वायु और अग्नि और (ते) वे [प्रसिद्ध] (विश्वे देवाः) सब दिव्य पदार्थ [सूर्य, पृथिवी आदि] (अहृणीयमानाः) संकोच न करते हुए (अनु मन्यन्ताम्) अनुकूल रहें ॥२१॥"

भावार्थ :

टिप्पणी :२१−(शतम्) कलिसन्धेः शतदैववर्षाणि (ते) तुभ्यम् (अयुतम्) कलियुगस्य दशसहस्रदैववर्षाणि (हायनान्) अ० ३।१०।९। संवत्सरान् (द्वे युगे) द्विगुणितं शतं चायुतं च द्वापरस्य सन्धियुगयोर्दैववर्षाणि (त्रीणि) त्रिगुणितं शतं चायुतं च त्रेतायुगस्य सन्धियुगयोर्दैववर्षाणि (चत्वारि) चतुर्गुणितं शतं चायुतं च कृतयुगस्य सन्धियुगयोर्दैववर्षाणि (कृण्मः) कुर्मः। अन्यद् यथा-अ० १।३५।४। (इन्द्राग्नी) वाय्वग्नी (विश्वे) सर्वे (देवाः) दिव्यगुणाः पदार्थाः (ते) प्रसिद्धाः (अनुमन्यन्ताम्) अनुकूला भवन्तु (अहृणीयमानाः) असंकुचन्तः ॥