Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 3 / 21

तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे श॑फा॒रुजो॒ येन॒ पश्य॑सि यातु॒धाना॑न्। अ॑थर्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्व॑न्तम॒चितं॒ न्यो᳡ष ॥ 21॥

Veda : Atharvaveda | Kand : 8 | Sukta : 3 | Paryay : | Mantra No : 21

In Hindi:

ऋषि : चातनः | देवता : अग्निः | छन्द : भुरिक्त्रिष्टुप् | स्वर :

विषय : राजा के धर्म का उपदेश।

पदपाठ : तत् । अ॒ग्ने॒ । चक्षु॑: । प्रति॑ । धे॒हि॒ । रे॒भे । श॒फ॒ऽआ॒रुज॑: । येन॑ । पश्य॑सि । या॒तु॒ऽधाना॑न् । अ॒थ॒र्व॒ऽवत् । ज्योति॑षा । दैव्ये॑न । स॒त्यम् । धूर्व॑न्तम् । अ॒चित॑म् । नि । ओ॒ष॒ ॥३.२१॥

पदार्थ : (अग्ने) हे अग्नि [समान तेजस्वी राजन् !] (तत्) वह [क्रोधभरी] (चक्षुः) आँख (रेभे) कोलाहल मचानेवाले [शत्रु] पर (परि धेहि) डाल, (येन) जिससे (शफारुजः) शान्ति तोड़नेवाले (यातुधानान्) दुःखदायिओं को (पश्यसि) तू देखता है। (अथर्ववत्) निश्चल स्वभाववाले ऋषि के समान तू (दैव्येन) देवताओं [विद्वानों] से पाये हुए (ज्योतिषा) तेज से (सत्यम्) सत्य (धूर्वन्तम्) नाश करनेवाले (अचितम्) अचेत को (नि ओष) जला दे ॥२१॥"

भावार्थ :

टिप्पणी :२१−(तत्) क्रूरम् (अग्ने) (चक्षुः) दृष्टिम् (प्रति) प्रतिकूलम् (धेहि) स्थापय (रेभे)-म० १२। शब्दायमाने कोलाहलं कुर्वाणे दुष्टे (शफारुजः) शम शान्तौ-अच् मस्य फः पृषोदरादित्वात्-इति शब्दस्तोममहानिधिः। शफ+आ+रुजो भङ्गे-क्विप्। शान्तिसम्भञ्जकान् (येन) चक्षुषा (पश्यसि) अवलोकयसि (यातुधानान्) पीडाप्रदान् (अथर्ववत्) अ० ४।१।७। निश्चलस्वभावो मुनिर्यथा (ज्योतिषा) तेजसा (दैव्येन) देवाद् यञञौ। वा० पा० ४।१।८५। देव-यञ्। देवेभ्यो विद्वद्भ्यः प्राप्तेन (सत्यम्) यथार्थम् (धूर्वन्तम्) धुर्वी हिंसायाम्-शतृ। हिंसन्तम् (अचितम्) अचेत्तारम् निर्बुद्धिम् (नि) नितराम् (ओष) उष दाहे-लोट्। दह ॥