Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 4 / 13

न वा उ॒ सोमो॑ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं॑ मिथु॒या धा॒रय॑न्तम्। हन्ति॒ रक्षो॒ हन्त्यास॒द्वद॑न्तमु॒भाविन्द्र॑स्य॒ प्रसि॑तौ शयाते ॥ 13॥

Veda : Atharvaveda | Kand : 8 | Sukta : 4 | Paryay : | Mantra No : 13

In Hindi:

ऋषि : चातनः | देवता : इन्द्रासोमौ, अर्यमा | छन्द : त्रिष्टुप् | स्वर :

विषय : राजा और मन्त्री के धर्म का उपदेश।

पदपाठ : न । वै । ऊं॒ इति॑ । सोम॑: । वृ॒जि॒नम् । हि॒नो॒ति॒ । न । क्ष॒त्रिय॑म् । मि॒थु॒या । धा॒रय॑न्तम् । हन्ति॑ । रक्ष॑: । हन्ति॑ । अस॑त् । वद॑न्तम् । उ॒भौ । इन्द्र॑स्य । प्रऽसि॑तौ । श॒या॒ते॒ इति॑ ॥४.१३॥

पदार्थ : (सोमः) ऐश्वर्यवान् राजा (वृजिनम्) पापी को (न वै उ) न कभी भी (हिनोति) बढ़ाता है, और (न) न (मिथुया) [प्रजा की] हिंसा (धारयन्तम्) धारण करनेवाले (क्षत्रियम्) क्षत्रिय [बलवान्] को। वह) रक्षः) राक्षस को (हन्ति) मारता है, और (असत्) झूँठ (वदन्तम्) बोलनेवाले को (हन्ति) मारता है, (उभौ) वे दोनों (इन्द्रस्य) राजा की (प्रसितौ) बेड़ी में (शयाते) सोते हैं ॥१३॥"

भावार्थ :

टिप्पणी :१३−(न) निषेधे (वै) अवधारणे (उ) निश्चये (सोमः) ऐश्वर्यवान् राजा (वृजिनम्) अ० १।१०।३। पापिनम् (हिनोति) वर्धयति (न) (क्षत्रियम्) क्षत्रं बलम् तद्वन्तम्। बलिनम् (मिथुया) अ० ४।२९।७। मिथु-विभक्तेर्याच्-पा० ७।१३९। मिथुं प्रजाहिंसनम् (धारयन्तम्) आचरन्तम् (हन्ति) (रक्षः) राक्षसम् (असत्) अनृतम् (वदन्तम्) कथयन्तम् (उभौ) (इन्द्रस्य) राज्ञः (प्रसितौ) अ० ८।३।—११। शृङ्खलायाम् (शयाते) वर्तेते ॥