Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 4 / 23

मा नो॒ रक्षो॑ अ॒भि न॑ड्यातु॒माव॒दपो॑च्छन्तु मिथु॒ना ये कि॑मी॒दिनः॑। पृ॑थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥ 23॥

Veda : Atharvaveda | Kand : 8 | Sukta : 4 | Paryay : | Mantra No : 23

In Hindi:

ऋषि : चातनः | देवता : इन्द्रासोमौ, अर्यमा | छन्द : भुरिक्त्रिष्टुप् | स्वर :

विषय : राजा और मन्त्री के धर्म का उपदेश।

पदपाठ : मा । न॒: । रक्ष॑: । अ॒भि॒ । न॒ट् । या॒तु॒ऽमाव॑त् । अप॑ । उ॒च्छ॒न्तु॒ । मि॒थु॒ना । ये । कि॒मी॒दिन॑: । पृ॒थि॒वी । न॒: । पार्थि॑वात् । पा॒तु॒ । अंह॑स: । अ॒न्‍तरि॑क्षम् । दि॒व्यात् । पा॒तु॒ । अ॒स्मान् ॥४.२३॥

पदार्थ : (यातुमावत्) पीड़ा रूप सम्पत्तिवाला (रक्षः) राक्षस (नः) हम तक (मा अभि नट्) कभी न पहुँचे, (मिथुनाः) हिंसक लोग, (ये) जो (किमीदिनः) लुतरे हैं, (अप उच्छन्तु) दूर जावें। (पृथिवी) पृथिवी (नः) हमको (पार्थिवात्) पार्थिव (अंहसः) कष्ट से (पातु) बचावे, (अन्तरिक्षम्) अन्तरिक्ष (दिव्यात्) आकाशीय [कष्ट] से (अस्मान्) हमें (पातु) बचावे ॥२३॥"

भावार्थ :

टिप्पणी :२३−(नः) अस्मान् (रक्षः) राक्षसः (अभि) अभितः (मा नट्) नशत् व्याप्तिकर्मा-निघ० २।१८। नशतेर्लुङि। मन्त्रे घसह्वरणश०। पा० २।४।८०। च्लेर्लुक्। न माङ्योगे। पा० ६।४।७४। अडभावः। मा प्राप्नोतु (यातुमावत्) इन्दिरा लोकमाता मा। इत्यमरः १।२९। मा लक्ष्मीः। पीडारूपसम्पत्तियुक्तम् (अप उच्छन्तु) उच्छी विवासने। अप गच्छन्तु (मिथुनाः) क्षुधिपिशिमिथिभ्यः कित्। उ० ३।५५। मिथृ वधे मेधायां च-उनन्। हिंसकाः (ये) (किमीदिनः) अ० १।७।१। पिशुनाः (पृथिवी) (नः) अस्मान् (पार्थिवात्) पृथिवीसम्बन्धिनः (पातु) (अंहसः) पीडनात् (अन्तरिक्षम्) अन्तरिक्षपदार्थजातम् (दिव्यात्) अन्तरिक्षे भवात् (पातु) (अस्मान्) ॥