Atharvaveda / 8 / 5 / 9
याः कृ॒त्या आ॑ङ्गिर॒सीर्याः कृ॒त्या आ॑सु॒रीर्याः कृ॒त्याः स्व॒यंकृ॑ता॒ या उ॑ चा॒न्येभि॒राभृ॑ताः। उ॒भयी॒स्ताः परा॑ यन्तु परा॒वतो॑ नव॒तिं ना॒व्या अति॑ ॥ 9॥
Veda : Atharvaveda | Kand : 8 | Sukta : 5 | Paryay : | Mantra No : 9
In English:
Seer : shukraH | Devta : kRRityaaduuShaNam athavaa mantroktaaH | Metre : chatuShpadaa puraskRRitirjagatii | Tone :
Subject : English Translation will be uploaded as and when ready.
Verse : yaaH kRRityaa aa~NgirasiiryaaH kRRityaa aasuriiryaaH kRRityaaH svaya.mkRRitaa yaa u chaanyebhiraabhRRitaaH. ubhayiistaaH paraa yantu paraavato navati.m naavyaa ati . 9.
Component Words : yaaH . kRRityaaH . aa~NgirasiiH . yaaH . kRRityaaH . aasuriiH . yaaH. kRRityaaH . svayam.akRRitaaH . yaaH . uu.m iti . cha . anyebhiH . aa.abhRRitaaH . ubhayiiH . taaH . paraa . yantu . paraa.avataH . navatim . naavyaa᳡H . ati .5.9.
In Hindi:
ऋषि : शुक्रः | देवता : कृत्यादूषणम् अथवा मन्त्रोक्ताः | छन्द : चतुष्पदा पुरस्कृतिर्जगती | स्वर :
विषय : हिंसा के नाश का उपदेश।
पदपाठ : या: । कृ॒त्या: । आ॒ङ्गि॒र॒सी: । या: । कृ॒त्या: । आ॒सु॒री: । या:। कृ॒त्या: । स्व॒यम्ऽकृता॑: । या: । ऊं॒ इति॑ । च॒ । अ॒न्येभि॑: । आऽभृ॑ता: । उ॒भयी॑: । ता: । परा॑ । य॒न्तु॒ । प॒रा॒ऽवत॑: । न॒व॒तिम् । ना॒व्या᳡: । अति॑ ॥५.९॥
पदार्थ : (याः) जो (कृत्याः) हिंसाएँ (आङ्गिरसीः) ऋषियों कर के कही गई हैं, (याः) जो (कृत्याः) हिंसाएँ (आसुरीः) असुरों करके की गई हैं, (याः) जो (कृत्याः) हिंसाएँ (स्वयंकृताः) अपने से की गई हैं, (च उ) और भी (याः) जो (अन्येभिः) दूसरे पुरुषों करके (आभृताः) पहुँचाई गई हैं, (उभयीः) सम्पूर्ण (ताः) वे (नवतिम्) नब्बे (नाव्याः) नाव से उतरने योग्य नदियों को (अति) पार करके (परावतः) बहुत दूर देशों को (परा यन्तु) चली जावें ॥९॥"
भावार्थ : टिप्पणी :९−(याः) (कृत्याः) हिंसाः। उपद्रवाः (अङ्गिरसीः) तेन प्रोक्तम्। पा० ४।३।१०१। अङ्गिरस्-अण्, ङीप्। आङ्गिरस्यः। अङ्गिरोभिर्ज्ञानवद्भिः प्रोक्ताः (याः) (कृत्याः) (आसुरीः) तेन निर्वृत्तम्। पा० ४।२।६८। असुर-अण्। आसुर्यः। असुरैरुपद्रविभिर्निर्मिताः (याः) (कृत्याः) (स्वयंकृताः) आत्मना कृताः स्वबुद्धिविकारेण (उ) अपि (च) (अन्येभिः) अन्यैः (आभृताः) आहृताः। प्रापिताः (उभयीः) अ० ७।१०९।२। उभ पूर्तौ-कयन्, ङीप्। उभय्यः। सम्पूर्णाः (ताः) कृत्याः (परा) दूरे (यन्तु) गच्छन्तु (परावतः) दूरदेशान् (नवतिम्) बह्वीरित्यर्थः (नाव्याः) नौवयोधर्मविष०। पा० ४।४।९१। नौ-यत्। नावा तार्याः नदीः (अति) अतीत्य ॥