Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 9 / 17

षडा॑हुः शी॒तान्षडु॑ मा॒स उ॒ष्णानृ॒तुं नो॒ ब्रूत॑ यत॒मोऽति॑रिक्तः। स॒प्त सु॑प॒र्णाः क॒वयो॒ नि षे॑दुः स॒प्त च्छन्दां॒स्यनु॑ स॒प्त दी॒क्षाः ॥ 17॥

Veda : Atharvaveda | Kand : 8 | Sukta : 9 | Paryay : | Mantra No : 17

In Hindi:

ऋषि : अथर्वा | देवता : कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः | छन्द : त्रिष्टुप् | स्वर :

विषय : ब्रह्म विद्या का उपदेश।

पदपाठ : षट् । आ॒हु॒: । शी॒तान् । षट् । ऊं॒ इति॑ । मा॒स: । उ॒ष्णान् । ऋ॒तुम् । न॒: । ब्रू॒त॒ । य॒त॒म: । अति॑ऽरिक्त: । स॒प्त । सु॒ऽप॒र्णा: । क॒वय॑: । नि । से॒दु॒: । स॒प्त । छन्दां॑सि । अनु॑ । स॒प्त । दी॒क्षा: ॥९.१७॥

पदार्थ : वे [ईश्वरनियम] (षट्) छह (शीतान्) शीत और (षट् उ) छह ही (उष्णान्) उष्ण (मासः) महीने (आहुः) बताते हैं, (ऋतुम्) [वह] ऋतु (नः) हमें (ब्रूत) बताओ (यतमः) जो कोई (अतिरिक्तः) भिन्न है। (सप्त) सात [वा सात वर्णवाली] (सुपर्णाः) बड़ी पालनेवाली (कवयः) गतिशील इन्द्रियाँ [वा सूर्य की किरणें] (सप्त) सात (छन्दांसि अनु) ढकनों [मस्तक के छिद्रों] के साथ (सप्त) सात (दीक्षाः) संस्कारों में (नि षेदुः) बैठी हैं ॥१७॥"

भावार्थ :

टिप्पणी :१७−(षट्) (आहुः) कथयन्ति परमात्मनियमाः (शीतान्) अ० १।२५।४। शीतलान् (षट्) (उ) एव (मासः) माङ् माने-असुन्। मासान् (उष्णान्) शीतभिन्नान् (ऋतुम्) वसन्तादिकम् (नः) अस्मभ्यम् (ब्रूत) कथयत (यतमः) यः कश्चित् (अतिरिक्तः) भिन्नः (सप्त) शुक्लनीलपीतादिसप्तवर्णयुक्ताः (सुपर्णाः) अ० १।२४।१। सुपर्णाः सुपतना आदित्यरश्मयः-निरु० ३।१२। आदित्यरश्मयः (कवयः) “कवतेः” धातोः गत्यर्थस्य कविः, कवति गच्छत्यसौ नित्यम्-इति दुर्गाचार्यो निरुक्तटीकायाम्, १२।१३। कवीनां कवीयमानानामादित्यरश्मीनाम्, कवीनां कवीयमानानामिन्द्रियाणाम्-निरु० १४।१३। गतिशीलानीन्द्रियाणि। गतिशीला आदित्यरश्मयः (निषेदुः) निषीदन्ति (सप्त) (छन्दांसि) अ० ४।३४।१। छदि आच्छादने-असुन्। कः सप्त खानि... अ० १–०।२।६। इति श्रवणात्। आवरकाणि कर्णादीनि शीर्षण्यानि छिद्राणि (अनु) अनुसृत्य (सप्त) (दीक्षाः) अ० ८।५।१५। संस्कारान् ॥