Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 9 / 22

इ॒त्थं श्रेयो॒ मन्य॑माने॒दमाग॑मं यु॒ष्माकं॑ स॒ख्ये अ॒हम॑स्मि॒ शेवा॑। स॑मा॒नज॑न्मा॒ क्रतु॑रस्ति॒ वः शि॒वः स वः॒ सर्वाः॒ सं च॑रति प्रजा॒नन् ॥ 22॥

Veda : Atharvaveda | Kand : 8 | Sukta : 9 | Paryay : | Mantra No : 22

In Hindi:

ऋषि : अथर्वा | देवता : कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः | छन्द : जगती | स्वर :

विषय : ब्रह्म विद्या का उपदेश।

पदपाठ : इ॒त्थम् । श्रेय॑: । मन्य॑माना: । इ॒दम् । आ । अ॒ग॒म॒म् । यु॒ष्माक॑म् । स॒ख्ये । अ॒हम् । अ॒स्मि॒ । शेवा॑ । स॒मा॒नऽज॑न्मा । क्रतु॑: । अ॒स्ति॒ । व॒: । शि॒व: । स: । व॒: । सर्वा॑: । सम् । च॒र॒ति॒ । प्र॒ऽजा॒नन् ॥९.२२॥

पदार्थ : [हे मनुष्यो !] (इत्थम्) इस प्रकार (श्रेयः) आनन्द (मन्यमाना) मनाती हुई (अहम्) मैं [विराट्] (इदम्) इस [चराचर जगत्] में (आ अगमम्) आयी हूँ, और (युष्माकम्) तुम्हारी (सख्ये) मित्रता में (शेवा) सुख देनेवाली (अस्मि) हूँ। (समानजन्मा) [कर्मफल के साथ] एक जन्मवाला (वः क्रतुः) तुम्हारा बोध (शिवः) मङ्गलकारी (अस्ति) है, (सः) वह [बोध] (वः) तुम्हारी (सर्वाः) सब [आशायें] (प्रजानन्) समझता हुआ (संचरति) संचार करता है ॥२२॥"

भावार्थ :

टिप्पणी :२२−(इत्थम्) एवम् (श्रेयः) प्रशस्य-ईयसुन्। कल्याणम् (मन्यमाना) जानन्ती (इदम्) चराचरं जगत् (आ अगमम्) आगतवती (युष्माकम्) (सख्ये) मित्रभावे (अहम्) विराट् (अस्मि) (शेवा) इण्शीभ्यां वन्। उ० १।१५२। शीङ् शयने-वन्। शेव इति सुखनाम शिष्यतेर्वकारो नामकरणोऽन्तस्थान्तरोपलिङ्गी विभाषितगुणः शिवमित्यप्यस्य भवति-निरु० १०।१७। सुखदा (समानजन्मा) एकोत्पत्तियुक्तः कर्मफलैः सह (क्रतुः) प्रज्ञा-निघ० ३।९ (अस्ति) (वः) युष्माकम् (शिवः) शङ्करः (सः) क्रतुः (वः) युष्माकम् (सर्वाः) अखिला आशा दीर्घाकाङ्क्षाः (संचरति) (प्रजानम्) प्रबोधन् ॥