Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 1 / 3

पश्य॑न्त्यस्याश्चरि॒तं पृ॑थि॒व्यां पृथ॒ङ्नरो॑ बहु॒धा मीमां॑समानाः। अ॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे म॒रुता॑मु॒ग्रा न॒प्तिः ॥ 3॥

Veda : Atharvaveda | Kand : 9 | Sukta : 1 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : अथर्वा | देवता : मधु, अश्विनौ | छन्द : परानुष्टुप्त्रिष्टुप् | स्वर :

विषय : ब्रह्म की प्राप्ति का उपदेश।

पदपाठ : पश्य॑न्ति । अ॒स्या॒: । च॒रि॒तम् । पृ॒थि॒व्याम् । पृथ॑क् । नर॑: । ब॒हु॒ऽधा । मीमां॑समाना: । अ॒ग्ने: । वाता॑त् । म॒धु॒ऽक॒शा। हि । ज॒ज्ञे । म॒रुता॑म् । उ॒ग्रा । न॒प्ति: ॥१.३॥

पदार्थ : (बहुधा) अनेक प्रकार (मीमांसमानाः) मीमांसा [विचारपूर्वक तत्त्वनिर्णय] करते हुये (नरः) नेता लोग (अस्याः) इस [मधुकशा] के (चरितम्) चरित्र को (पृथिव्याम्) पृथिवी पर (पृथक्) अलग-अलग (पश्यन्ति) देखते हैं। (मरुताम्) शूर पुरुषों की (उग्रा) प्रबल, (नप्तिः) न गिरनेवाली शक्ति, (मधुकशा) मधुकशा [ब्रह्मविद्या] (हि) ही (अग्नेः) अग्नि से और (वातात्) वायु से (जज्ञे) प्रकट हुई है ॥३॥"

भावार्थ :

टिप्पणी :३−(पश्यन्ति) अवलोकयन्ति (अस्याः) मधुकशायाः (चरितम्) चेष्टितम् (पृथिव्याम्) भूलोके (पृथक्) भिन्नभिन्नप्रकारेण (नरः) नयतेर्डिच्च। उ० २।१००। णीञ् प्रापणे-ऋ। नेतारः। नराः (बहुधा) विविधम् (मीमांसमानाः) मान जिज्ञासायाम् स्वार्थे सन्-शानच्। विचारपूर्वकतत्त्वनिर्णयं कुर्वन्तः (मरुताम्) अ० १।२०।१। शूराणाम् (अस्याः) मधुकशायाः (उग्रा) प्रबला (नप्तिः) नञ्+पत्लृ अधःपतने-क्तिन्, टेर्लोपः। नपप्तिः। अपतनशक्तिः। स्थितिः ॥