Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 2 / 5

सा ते॑ काम दुहि॒ता धे॒नुरु॑च्यते॒ यामा॒हुर्वाचं॑ क॒वयो॑ वि॒राज॑म्। तया॑ स॒पत्ना॒न्परि॑ वृङ्ग्धि॒ ये मम॒ पर्ये॑नान्प्रा॒णः प॒शवो॒ जीव॑नं वृणक्तु ॥ 5॥

Veda : Atharvaveda | Kand : 9 | Sukta : 2 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : अथर्वा | देवता : कामः | छन्द : अतिजगती | स्वर :

विषय : ऐश्वर्य की प्राप्ति का उपदेश।

पदपाठ : सा । ते॒ । का॒म॒ । दु॒हि॒ता । धे॒नु: । उ॒च्य॒ते॒ । याम् । आ॒हु: । वाच॑म् । क॒वय॑: । वि॒ऽराज॑म् । तया॑ । स॒ऽपत्ना॑न् । परि॑ । वृ॒ङ्ग्धि॒ । ये । मम॑ । परि॑ । ए॒ना॒न् । प्रा॒ण: । प॒शव॑: । जीव॑नम् । वृ॒ण॒क्तु॒ ॥२.५॥

पदार्थ : (काम) हे कमनीय परमात्मन् (सा) वह [हमारी कामनायें] (दुहिता) पूरण करनेवाली (ते) तेरी (धेनुः) वाणी (उच्यते) कही जाती है, (वाम्) जिस (वाचम्) वाणी को (कवयः) बुद्धिमान् लोग (विराजम्) विविध ऐश्वर्यवाली (आहुः) कहते हैं। (तया) उस [वाणी] से (सपत्नान्) उन वैरियों को (परि वृङ्ग्धि) हटा दे, (ये) जो (मम) मेरे [शत्रु हैं,] (एनान्) उन [शत्रुओं] को (प्राणः) प्राण, (पशवः) सब जीव और (जीवनम्) जीवनवृत्ति (परि वृणक्तु) त्याग देवे ॥५॥"

भावार्थ :

टिप्पणी :५−(सा) प्रसिद्धा (ते) तव (काम) कमनीय (दुहिता) अ० ३।१०।१३। कामानां प्रपूरयित्री (धेनुः) अ० ३।१०।१। तर्पयित्री वाक्-निघ० १।११। (उच्यते) (याम्) (आहुः) कथयन्ति (वाचम्) वेदवाणीम् (कवयः) मेधाविनः (विराजम्) अ० ८।९।१। विवधेश्वरीम् (तया) वाचा (सपत्नान्) शत्रून् (परिवृङ्ग्धि) सर्वतो वर्जय (ये) शत्रवः (मम) (परि) (एनान्) सपत्नान् (प्राणः) आत्मोत्कर्षः (पशवः) प्राणिनः (जीवनम्) जीवनसाधनम् (वृणक्तु) अ० १।३०।३। वर्जयतु ॥