Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 2 / 7

अध्य॑क्षो वा॒जी मम॒ काम॑ उ॒ग्रः कृ॒णोतु॒ मह्य॑मसप॒त्नमे॒व। विश्वे॑ दे॒वा मम॑ ना॒थं भ॑वन्तु॒ सर्वे॑ दे॒वा हव॒मा य॑न्तु म इ॒मम् ॥ 7॥

Veda : Atharvaveda | Kand : 9 | Sukta : 2 | Paryay : | Mantra No : 7

In Hindi:

ऋषि : अथर्वा | देवता : कामः | छन्द : जगती | स्वर :

विषय : ऐश्वर्य की प्राप्ति का उपदेश।

पदपाठ : अधि॑ऽअक्ष: । वा॒जी । मम॑ । काम॑: । उ॒ग्र: । कृ॒णोतु॑ । मह्य॑म् । अ॒स॒प॒त्नम् । ए॒व । विश्वे॑ । दे॒वा: । मम॑ । ना॒थम् । भ॒व॒न्तु॒ । सर्वे॑ ।दे॒वा: । हव॑म् । आ । य॒न्तु॒ । मे॒ । इ॒मम् ॥२.७॥

पदार्थ : “(मम) मेरा (अध्यक्षः) अध्यक्ष, (वाजी) पराक्रमी, (उग्रः) तेजस्वी, (कामः) कामनायोग्य [परमेश्वर] (मह्यम्) मुझको (एव) अवश्य (असपत्नम्) बिना शत्रु (कृणोतु) करे। (विश्वे) सब (देवाः) दिव्य गुण (मम) मेरे (नाथम्) ऐश्वर्य (भवन्तु) होवें,” (सर्वे) सब (देवाः) दिव्य गुणवाले लोग (मम) मेरी (इमम्) इस (हवम्) पुकार को (आ यन्तु) आकर प्राप्त हों ॥७॥"

भावार्थ :

टिप्पणी :७−(अध्यक्षः) अधिगतोऽक्षं व्यक्षहारं यः। अधिष्ठाता (वाजी) पराक्रमी (मम) उपासकस्य (कामः) कमनीयः परमेश्वरः (उग्रः) तेजस्वी (कृणोतु) करोतु (मह्यम्) द्वितीयार्थे चतुर्थी। माम् (असपत्नम्) अशत्रुम् (एव) अवश्यम् (विश्वे) सर्वे (देवाः) दिव्यगुणाः (मम) (नाथम्) नाथृ याच्ञोपतापैश्वर्याशीःषु-अच्। ऐश्वर्यम् (भवन्तु) सन्तु (सर्वे) (देवाः) दिव्यगुणाः पुरुषाः (हवम्) आह्वानम् (आ यन्तु) आगत्य प्राप्नुवन्तु (मे) मम (इमम्) पूर्वोक्तम् ॥