Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 5 / 30

आ॒त्मानं॑ पि॒तरं॑ पु॒त्रं पौत्रं॑ पिताम॒हम्। जा॒यां जनि॑त्रीं मा॒तरं॒ ये प्रि॒यास्तानुप॑ ह्वये ॥ 30॥

Veda : Atharvaveda | Kand : 9 | Sukta : 5 | Paryay : | Mantra No : 30

In Hindi:

ऋषि : भृगुः | देवता : अजः पञ्चौदनः | छन्द : ककुम्मत्यनुष्टुप् | स्वर :

विषय : ब्रह्मज्ञान से सुख का उपदेश।

पदपाठ : आ॒त्मान॑म् । पि॒तर॑म् । पु॒त्रम् । पौत्र॑म् । पि॒ता॒म॒हम् । जा॒याम् । जनि॑त्रीम् । मा॒तर॑म् । ये । प्रि॒या: । तान् । उप॑ । ह्व॒ये॒ ॥५.३०॥

पदार्थ : (आत्मानम्) आत्मबल, (पितरम्) पिता, (पुत्रम्) पुत्र, (पौत्रम्) पौत्र, (पितामहम्) दादा, (जायाम्) पत्नी, (जनित्रीम्) उत्पन्न करनेवाली (मातरम्) माता को और (ये) जो (प्रियाः) प्रिय है, (तान्) उन सबको (उप ह्वये) मैं आदर से बुलाता हूँ ॥३०॥"

भावार्थ :

टिप्पणी :३०−(आत्मानम्) आत्मबलम् (पितरम्) पातारं जनकम् (पुत्रम्) अ० १।११।५। कुलशोधकं सुतम् (पौत्रम्) पुत्र-अण्। नप्तारम् (पितामहम्) पितृव्यमातुलमातामहपितामहाः। पा० ४।२।३।६। पितृ-डामहच्। पितुः पितरम् (जायाम्) पत्नीम् (जनित्रीम्) जनयित्रीं जननीम् (मातरम्) (ये) (प्रियाः) प्रीतिकराः (तान्) (उप) आदरेण (ह्वये) आह्वयामि ॥