Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 9 / 5

इ॒ह ब्र॑वीतु॒ य ई॑म॒ङ्ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः। शी॒र्ष्णः क्षी॒रं दु॑ह्रते॒ गावो॑ अस्य व॒व्रिं वसा॑ना उद॒कं प॒दाऽपुः॑ ॥ 5॥

Veda : Atharvaveda | Kand : 9 | Sukta : 9 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : ब्रह्मा | देवता : वामः, आदित्यः, अध्यात्मम् | छन्द : त्रिष्टुप् | स्वर :

विषय : जीवात्मा और परमात्मा के ज्ञान का उपदेश।

पदपाठ : इ॒ह । ब्र॒वी॒तु॒ । य: । ई॒म् । अ॒ङ्ग । वेद॑ । अ॒स्य । वा॒मस्य॑ । निऽहि॑तम् । प॒दम् । वे: । शी॒र्ष्ण: । क्षी॒रम् । दु॒ह्र॒ते॒ । गाव॑: । अ॒स्य॒ । व॒व्रिम् । वसा॑ना: । उ॒द॒कम् । प॒दा । अ॒पु॒: ॥१४.५॥

पदार्थ : (अङ्ग) हे प्यारे ! (इह) इस [ब्रह्म विषय] में (ब्रवीतु) वह बोले, (यः) जो [पुरुष] (अस्य) इस (वामस्य) मनोहर (वेः) चलनेवाले [वा पक्षी रूप सूर्य] के (निहितम्) ठहराये हुए (पदम्) मार्ग को (ईम्) सब प्रकार (वेद) जानता है। (गावः) किरणें (अस्य) इस [सूर्य] के (शीर्ष्णः) मस्तक से (क्षीरम्) जल को (दुह्रते) दुहती [देती] हैं, [जिस] (उदकम्) जल को (वव्रिम्) रूप [सूर्य के प्रकाश] को (वसानाः) ओढ़ती हुई [उन किरणों] ने (पदा) [अपने] पैर [नीचे भाग] से (अपुः) पिया था ॥५॥"

भावार्थ :

टिप्पणी :५−(इह) अस्मिन् ब्रह्मविषये (ब्रवीतु) वदतु (यः) विद्वान् (ईम्) सर्वतः (अङ्ग) सम्बोधने (वेद) जानाति (अस्य) दृश्यमानस्य (वामस्य) म० १। मनोहरस्य (निहितम्) ब्रह्मणा स्थापितम् (पदम्) गन्तव्यं मार्गम् (वेः) वातेर्डिच्च। उ० ४।१३४। वा गतिगन्धनयोः−इण्, डित्। गन्तुः सूर्यस्य (शीर्ष्णः) मस्तकात् (क्षीरम्) जलम् (दुह्रते) बहुलं छन्दसि। पा० ७।१।८। रुडागमः। दुहते। पूरयन्ति (गावः) किरणाः (अस्य) (वव्रिम्) आदृगमहनजनः किकिनौ लिट् च। पा० ३।२।१७१। वृञ् वरणे-कि, द्विर्वचनम्, कित्वाद् गुणाभावः, यणादेशः। वव्रिरिति रूपनाम वृणोतीति सतः-निरु० २।९। वरणीयं रूपं प्रकाशम्। (वसानाः) अ० ३।१२।५। आच्छादयन्तः (उदकम) जलम् (पदा) पादेन। मूलेन (अपुः) पा पाने−लुङ्। पीतवन्तः ॥