Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 9 / 22

यत्रा॑ सुप॒र्णा अ॒मृत॑स्य भ॒क्षमनि॑मेषं वि॒दथा॑भि॒स्वर॑न्ति। ए॒ना विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीरः॒ पाक॒मत्रा वि॑वेश ॥ 22॥

Veda : Atharvaveda | Kand : 9 | Sukta : 9 | Paryay : | Mantra No : 22

In Hindi:

ऋषि : ब्रह्मा | देवता : वामः, आदित्यः, अध्यात्मम् | छन्द : त्रिष्टुप् | स्वर :

विषय : जीवात्मा और परमात्मा के ज्ञान का उपदेश।

पदपाठ : यत्र॑ । सु॒ऽप॒र्णा: । अ॒मृत॑स्य । भ॒क्षम् । अनि॑ऽमेषम् । वि॒दथा॑ । अ॒भि॒ऽस्वर॑न्ति । ए॒ना । विश्व॑स्य । भुव॑नस्य । गो॒पा: । स: । मा॒ । धीर॑: । पाक॑म् । अत्र॑ । आ । वि॒वे॒श॒ ॥१४.२२॥

पदार्थ : (यत्र) जिस (विदथा) ज्ञान के भीतर (सुपर्णाः) सुन्दर पालन करनेवाले [वा सुन्दर गतिवाले, प्राणी] (अमृतस्य) अमृतपन [मोक्षसुख] के (भक्षम्) भोग को (अनिमेषम्) लगातार (अभिस्वरन्ति) सब ओर से पाते हैं। (एना) इसी विज्ञान के साथ (विश्वस्य) सब (भुवनस्य) संसार का (गोपाः) रक्षक (सः) वह (धीरः) धीर [बुद्धिमान् परमेश्वर] (पाकम्) पक्के मनवाले (मा) मुझ में (अत्र) इस [देह] के भीतर (आ) यथावत् (विवेश) पैठा है ॥२२॥"

भावार्थ :

टिप्पणी :२२−(यत्र) यस्मिन् ज्ञाने (सुपर्णाः) म० २१। सुपालकाः प्राणिनः। शोभनकर्माणो जीवाः-द० (अमृतस्य) मोक्षस्य-द० (भक्षम्) भोगम् (अनिमेषम्) निरन्तरम् (विदथा) रुविदिभ्यां ङित्। उ० ३।११५। विद ज्ञाने-अथ। वेदेन ज्ञानेन (अभिस्वरन्ति) स्वरतिर्गतिकर्मा-निघ० २।१४। अभिप्रयन्ति-निरु० ३।१२। सर्वतः प्राप्नुवन्ति (एना) एनेन विदथेन (विश्वस्य) समग्रस्य (भुवनस्य) संसारस्य (गोपाः) गोपायिता रक्षिता (सः) (मा) माम् (धीरः) धीमान्-निरु० ३।१˜२। ध्यानवान्-द० (पाकम्) पाकः पक्तव्यो भवति विपक्वप्रज्ञ आत्मा-निरु० ३।१२। परिपक्वमनस्कम् (अत्र) अस्मिन् देहे (आ) समन्तात् (विवेश) प्रविशति ॥