Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 10 / 14

इ॒यं वेदिः॒ परो॒ अन्तः॑ पृथि॒व्या अ॒यं सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑। अ॒यं य॒ज्ञो विश्व॑स्य॒ भुव॑नस्य॒ नाभि॑र्ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो᳡म ॥ 14॥

Veda : Atharvaveda | Kand : 9 | Sukta : 10 | Paryay : | Mantra No : 14

In Hindi:

ऋषि : ब्रह्मा | देवता : गौः, विराट्, अध्यात्मम् | छन्द : जगती | स्वर :

विषय : जीवात्मा और परमात्मा के लक्षणों का उपदेश।

पदपाठ : इ॒यम् । वेदि॑: । पर॑: । अन्त॑: । पृ॒थि॒व्या: । अ॒यम् । सोम॑: । वृष्ण॑: । अश्व॑स्य । रेत॑: । अ॒यम् । य॒ज्ञ: । विश्व॑स्य । भुव॑नस्य । नाभि॑: । ब्र॒ह्मा । अ॒यम् । वा॒च: । प॒र॒मम् । विऽओ॑म ॥१५.१४॥

पदार्थ : (इयम्) यह [प्रत्यक्ष] (वेदिः) वेदि [विद्यमानता का बिन्दु वा यज्ञभूमि] (पृथिव्याः) पृथिवी का (परः) परला (अन्तः) अन्त है, (अयम्) यह [प्रत्यक्ष] (सोमः) ऐश्वर्यवान् रस [सोम औषध वा अन्न आदि का अमृत रस] (वृष्णः) पराक्रमी (अश्वस्य) बलवान् पुरुष का (रेतः) वीर्य [पराक्रम] है। (अयम्) यह [प्रत्यक्ष] (यज्ञः) यज्ञ [परमाणुओं का संयोग-वियोग व्यवहार] (विश्वस्य) सब (भुवनस्य) संसार की (नाभिः) नाभि [नियम में बाँधनेवाली शक्ति] है, (अयम्) यह [प्रत्यक्ष] (ब्रह्मा) ब्रह्मा [चारों वेदों का प्रकाशक परमेश्वर] (वाचः) वाणी [विद्या] का (परमम्) उत्तम (व्योम) [विविध रक्षास्थान] अवकाश है ॥१४॥"

भावार्थ :

टिप्पणी :१४−(इयम्) प्रत्यक्षा (वेदिः) हृपिषिरुहिवृतिविदि०। उ० ४।११९। विद सत्तायाम्, विद ज्ञाने, विद्लृ लाभे−इन्। विद्यमानताबिन्दुः। यज्ञभूमिः (परः) सीमापरिच्छिन्नः (अन्तः) सीमा (पृथिव्याः) (अयम्) (सोमः) ऐश्वर्यवान् रसः। सोमस्यान्नादेर्वा अमृतरसः (वृष्णः) म० १३। पराक्रमिणः (अश्वस्य) बलवतः पुरुषस्य (रेतः) वीर्यम् (अयम्) प्रत्यक्षः (यज्ञः) अ० १।९।४। यज देवपूजासङ्गतिकरणदानेषु-नङ्। परमाणूनां संयोगवियोगव्यवहारः (विश्वस्य) सर्वस्य (भुवनस्य) संसारस्य (नाभिः) म० १३। तुन्दकूपीवद् बन्धनशक्तिः (ब्रह्मा) बृंहेर्नोऽच्च। उ० ४।१४६। बृहि वृद्धौ-मनिन्, नस्य अकारः, रत्वम्। चतुर्णां वेदानां प्रकाशकः परमेश्वरः (अयम्) प्रत्यक्षः (वाचः) वाण्याः। विद्यायाः (परमम्) प्रकृष्टम् (व्योम) वि+अव रक्षणे-मनिन्। रक्षास्थानम्। अवकाशम् ॥