Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 10 / 28

इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न्। ए॒कं सद्विप्रा॑ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा॑तरिश्वानमाहुः ॥ 28॥

Veda : Atharvaveda | Kand : 9 | Sukta : 10 | Paryay : | Mantra No : 28

In Hindi:

ऋषि : ब्रह्मा | देवता : गौः, विराट्, अध्यात्मम् | छन्द : त्रिष्टुप् | स्वर :

विषय : जीवात्मा और परमात्मा के लक्षणों का उपदेश।

पदपाठ : इन्द्र॑म् । मि॒त्रम् । वरु॑णम् । अ॒ग्निम् । आ॒हु॒: । अथो॒ इति॑ । दि॒व्य: । स: । सु॒ऽप॒र्ण: । ग॒रुत्मा॑न् । एक॑म् । सत् । विप्रा॑: । ब॒हु॒ऽधा । व॒द॒न्ति॒ । अ॒ग्निम् । य॒मम् । मा॒त॒रिश्वा॑नम् । आ॒हु॒: ॥१५.२८॥

पदार्थ : (अग्निम्) अग्नि [सर्वव्यापक परमेश्वर] को (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाला] (मित्रम्) मित्र, (वरुणम्) वरुण [श्रेष्ठ] (आहुः) वे [तत्त्वज्ञानी] कहते हैं, (अथो) और (सः) वह (दिव्यः) प्रकाशमय (सुपर्णः) सुन्दर पालन सामर्थ्यवाला (गरुत्मान्) स्तुतिवाला [गुरु आत्मा महान् आत्मा] है (विप्राः) बुद्धिमान् लोग (एकम्) एक (सत्) सत्तावाले [ब्रह्म] को (बहुधा) बहुत प्रकारों से (वदन्ति) कहते हैं, (अग्निम्) उसी अग्नि [सर्वव्यापक परमात्मा] को (यमम्) नियन्ता और (मातरिश्वानम्) आकाश में श्वास लेता हुआ [अर्थात् आकाश में व्यापक] (आहुः) वे बताते हैं ॥२८॥"

भावार्थ :

टिप्पणी :२८−(इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (मित्रम्) स्नेहशालिनम् (वरुणम्) श्रेष्ठम् (अग्निम्) सर्वव्यापकम् (आहुः) कथयन्ति तत्त्वज्ञाः (अथो) अपि च (दिव्यः) दिवि प्रकाशे भवः (सः) (सुपर्णः) अ० १।२४।१। शोभनपालनः (गरुत्मान्) मृग्रोरुतिः। उ० १।९४। गॄ शब्दे स्तुतौ च−उति, मतुप्। गृणातिरर्चतिकर्मा-निघ० ३।१४। गृत्स इति मेधाविनाम गृणातेः स्तुतिकर्मणः-निरु० ९।५। गरुत्मान् गरणवान् गुर्वात्मा महात्मेति वा-निरु० ७।१८। स्तुतिमान्। महात्मा (एकम्) अद्वितीयम् (सत्) सत्ताविशिष्टम्। विद्यमानं ब्रह्म (विप्राः) मेधाविनः (बहुधा) अनेकप्रकारेण (वदन्ति) (अग्निम्) सर्वव्यापकं परमात्मानम् (यमम्) नियन्तारम् (मातरिश्वानम्) अ० ५।१०।८। मातरि अन्तरिक्षे श्वसन्तं चेष्टमानम् (आहुः) कथयन्ति ॥