Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 1 / 32

यथा॒ सूर्यो॑ मु॒च्यते॒ तम॑स॒स्परि॒ रात्रिं॒ जहा॑त्यु॒षस॑श्च के॒तून्। ए॒वाहं सर्वं॑ दुर्भू॒तं कर्त्रं॑ कृत्या॒कृता॑ कृ॒तं ह॒स्तीव॒ रजो॑ दुरि॒तं ज॑हामि ॥ 32॥

Veda : Atharvaveda | Kand : 10 | Sukta : 1 | Paryay : | Mantra No : 32

In Hindi:

ऋषि : प्रत्यङ्गिरसः | देवता : कृत्यादूषणम् | छन्द : द्व्यनुष्टुब्गर्भा पञ्चपदातिजगती | स्वर :

विषय : राजा के कर्तव्य दण्ड का उपदेश।

पदपाठ : यथा॑ । सूर्य॑: । मु॒च्यते॑ । तम॑स: । परि॑ । रात्रि॑म् । जहा॑ति । उ॒षस॑: । च॒ । के॒तून् । ए॒व । अ॒हम् । सर्व॑म् । दु॒:ऽभू॒तम् । कर्त्र॑म् । कृ॒त्या॒ऽकृता॑ । कृ॒तम् । ह॒स्तीऽइव॑ । रज॑: । दु॒:ऽइ॒तम् । ज॒हा॒मि॒ ॥१.३२॥

पदार्थ : (यथा) जैसे (सूर्यः) सूर्य (तमसः परि) अन्धकार में से (मुच्यते) छुटता है और (रात्रिम्) (च) और (उषसः) उषा [प्रभात समय] के (केतून्) चिह्नों को (जहाति) त्यागता है, (एव) वैसे ही (अहम्) मैं (कृत्याकृता) हिंसा करनेवाले करके (कृतम्) किये हुए (सर्वम्) सब (दुर्भूतम्) दुष्ट (कर्त्रम्) कर्म को (जहामि) त्यागता हूँ, (इव) जैसे (हस्ती) हाथी (दुरितम्) कठिन (रजः) देश को [पार कर जाता है] ॥३२॥"

भावार्थ :

टिप्पणी :३२−(यथा, सूर्यः) (मुच्यते) त्यज्यते (तमसः) अन्धकारात् (परि) पृथक् (रात्रिम्) (जहाति) त्यजति (उषसः) प्रभातवेलायाः (च) (केतून्) चिह्नानि (एव) तथा (अहम्) (सर्वम्) (दुर्भूतम्) दुष्टम् (कर्त्रम्) करोतेः ष्ट्रन्। कर्म (कृत्याकृता) म० २। हिंसाकारिणा (कृतम्) निष्पादितम् (हस्ती, इव) (रजः) लोकम्-निरु० ४।१९। देशम् (दुरितम्) दुर्गमनीयम् (जहामि) त्यजामि ॥