Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 2 / 8

म॒स्तिष्क॑मस्य यत॒मो ल॒लाटं॑ क॒काटि॑कां प्रथ॒मो यः क॒पाल॑म्। चि॒त्वा चित्यं॒ हन्वोः॒ पूरु॑षस्य॒ दिवं॑ रुरोह कत॒मः स दे॒वः ॥ 8॥

Veda : Atharvaveda | Kand : 10 | Sukta : 2 | Paryay : | Mantra No : 8

In Hindi:

ऋषि : नारायणः | देवता : ब्रह्मप्रकाशनम्, पुरुषः | छन्द : त्रिष्टुप् | स्वर :

विषय : मनुष्यशरीर की महिमा का उपदेश।

पदपाठ : म॒स्तिष्क॑म् । अ॒स्य॒ । य॒त॒म: । ल॒लाट॑म् । क॒काटि॑काम् । प्र॒थ॒म: । य: । क॒पाल॑म् । चि॒त्वा । चित्य॑म् । हन्वो॑: । पुरु॑षस्य । दिव॑म् । रु॒रो॒ह॒ । क॒त॒म: । स: । दे॒व: ॥२.८॥

पदार्थ : (यतमः) जौन सा (प्रथमः) सब से पहिला (यः) नियन्ता (अस्य) इस (पुरुषस्य) मनुष्य के (मस्तिष्कम्) भेजे को, (ललाटम्) ललाट [माथे] को, (ककाटिकाम्) ककाटिका [शिर के पिछले भाग] को, (कपालम्) कपाल [खोपड़ी] को और (हन्वोः) दोनों जबड़ों के (चित्यम्) संचय को (चित्वा) संचय करके [वर्तमान है], (सः) वह (कतमः) कौन सा (देवः) देव [स्तुतियोग्य] (दिवम्) प्रकाश को (रुरोह) चढ़ा है ॥८॥"

भावार्थ :

टिप्पणी :८−(मस्तिष्कम्) अ० २।३३।१। मस्तकस्नेहम् (अस्य) मनुष्यस्य (यतमः) बहूनां मध्ये यः (ललाटम्) अ० ९।७।१। भ्रुवोरूर्ध्वभागम्। भालम् (ककाटिकाम्) क+कट गतौ-घञ्, स्वार्थे क प्रत्ययः, टाप्, अकारस्य इत्वम्। के शिरसि काटो गतिर्यस्याः ककाटिका ताम्। शिरःपश्चाद्भागम् (प्रथमः) (यः) यम्−ड। नियन्ता (कपालम्) अ० ९।८।२२। शिरोऽस्थि (चित्वा) चयनं कृत्वा (चित्यम्) चिञ् चयने-क्यप्, तुक्। चयनम् (हन्वोः) म० ७। (पुरुषस्य) (दिवम्) प्रकाशम् (रुरोह) आरूढवान् (कतमः) बहूनां मध्ये कः (सः) (देवः) स्तुत्यः ॥