Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 4 / 10

अ॑घा॒श्वस्ये॒दं भे॑ष॒जमु॒भयो॑ स्व॒जस्य॑ च। इन्द्रो॒ मेऽहि॑मघा॒यन्त॒महिं॑ पै॒द्वो अ॑रन्धयत् ॥ 10॥

Veda : Atharvaveda | Kand : 10 | Sukta : 4 | Paryay : | Mantra No : 10

In Hindi:

ऋषि : गरुत्मान् | देवता : तक्षकः | छन्द : अनुष्टुप् | स्वर :

विषय : सर्प रूप दोषों के नाश का उपदेश।

पदपाठ : अ॒घ॒ऽअ॒श्वस्य॑ । इ॒दम् । भे॒ष॒जम् । उ॒भयो॑: । स्व॒जस्य॑ । च॒ । इन्द्र॑: । मे॒ । अहि॑म् । अ॒घ॒ऽयन्त॑म् । अहि॑म् । पै॒द्व: । अ॒र॒न्ध॒य॒त् ॥४.१०॥

पदार्थ : (उभयोः) दोनों, (अघाश्वस्य) अघाश्व [कष्ट फैलानेवाले सर्पविशेष] का (च) और (स्वजस्य) स्वज [लिपट जानेवाले सर्पविशेष] का (इदम्) यह (भेषजम्) औषध है। (इन्द्रः) बड़े ऐश्वर्यवाले (पैद्वः) शीघ्रगामी [पुरुष] ने (मे) मेरे लिये (अघायन्तम्) बुरा चीतनेवाले (अहिम्) महाहिंसक (अहिम्) साँप को (अरन्धयत्) मारा है ॥१०॥"

भावार्थ :

टिप्पणी :१०−(अघाश्वस्य) अघमश्नुते। अघ पापकरणे-अच्+अशू व्याप्तौ-क्वन्। कष्टप्रस्तारकस्य सर्पविशेषस्य (इदम्) (भेषजम्) औषधम् (उभयोः) (स्वजस्य) ष्वञ्ज आलिङ्गने-क। आलिङ्गनशीलस्य। सर्पविशेषस्य (च) (इन्द्रः) परमैश्वर्यवान् (मे) मह्यम् (अहिम्) म० १। महाहिंसकम् (अघायन्तम्) छन्दसि परेच्छायामपि वक्तव्यम्। वा० पा० ३।१।८। अघ-क्यच्-शतृ। अश्वाघस्यात्। पा० ७।४।३७। आत्वं सांहितिकम्। अघमिच्छन्तम् (अहिम्) सर्पम् (पैद्वः) म० ५। शीघ्रगामी (अरन्धयत्) रध हिंसासंराद्ध्योः−णिच्-लङ्। रध्यतिर्वशगमनेऽपि दृश्यते-निरु० १०।४०। मारितवान्। वशीकृतवान् ॥