Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 5 / 22

यद॑र्वा॒चीनं॑ त्रैहाय॒णादनृ॑तं॒ किं चो॑दि॒म। आपो॑ मा॒ तस्मा॒त्सर्व॑स्माद्दुरि॒तात्पा॒न्त्वंह॑सः ॥ 22॥

Veda : Atharvaveda | Kand : 10 | Sukta : 5 | Paryay : | Mantra No : 22

In Hindi:

ऋषि : सिन्धुद्वीपः | देवता : आपः, चन्द्रमाः | छन्द : अनुष्टुप् | स्वर :

विषय : विद्वानों के कर्तव्य का उपदेश।

पदपाठ : यत् । अर्वा॒चीन॑म् । त्रै॒हा॒य॒नात् । अनृ॑तम् । किम् । च॒ । ऊ॒दि॒म । आप॑: । मा॒ । तस्मा॑त् । सर्व॑स्मात् । दु॒:ऽइ॒तात् । पा॒न्तु॒ । अंह॑स: ॥५.२२॥

पदार्थ : (त्रैहायणात्) तीन उद्योगों [परमेश्वर के कर्म, उपासना और ज्ञान] से [अलग होकर] (यत् किम् च) जो कुछ भी (अर्वाचीनम्) नीच कर्म में होनेवाले (अनृतम्) झूँठ को (ऊदिम) हम बोले हैं, (आपः) विद्वान् लोग (मा) मुझको (तस्मात् सर्वस्मात्) उस सब (दुरितात्) कठिन (अंहसः) अपराध से (पान्तु) बचावें ॥२२॥"

भावार्थ :

टिप्पणी :२२−(यत्) (अर्वाचीनम्) अवर+अञ्च गतौ-क्विन्, अर्वादेशः, अर्वाच्-ख प्रत्ययः। अर्वाचि अवरे अधमे कर्मणि भवम् (त्रैहायणात्) हश्च व्रीहिकालयोः। पा० ३।१।१८४। ओहाक् त्यागे, ओहाङ् गतौ च−ण्युट् बाहुलकात्। आतो युक् चिण्कृतोः। पा० ७।३।३३। युक्। तस्य समूहः। पा० ४।२।३७। अण्। त्रयाणां हायनानां गतीनां परमेश्वरस्य कर्मोपासनाज्ञानरूपाणामुद्योगानां समूहस्त्रैहायनं तस्मात् पृथक् भूत्वा (अनृतम्) असत्यम् (किम् च) किंचन (ऊदिम) वयं कथिवन्तः (आपः) म० ६। विद्वांसः (मा) माम् (तस्मात्) (सर्वस्मात्) (दुरितात्) कठिनात् (पान्तु) (अहंसः) अपराधात् ॥