Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 8 / 20

यो वै ते वि॒द्याद॒रणी॒ याभ्यां॑ निर्म॒थ्यते॒ वसु॑। स वि॒द्वाञ्ज्ये॒ष्ठं म॑न्येत॒ स वि॑द्या॒द्ब्राह्म॑णं म॒हत् ॥ 20॥

Veda : Atharvaveda | Kand : 10 | Sukta : 8 | Paryay : | Mantra No : 20

In Hindi:

ऋषि : कुत्सः | देवता : आत्मा | छन्द : अनुष्टुप् | स्वर :

विषय : परमात्मा और जीवात्मा के स्वरूप का उपदेश।

पदपाठ : य: । वै । ते इति॑ । वि॒द्यात् । अ॒रणी॒ इति॑ । याभ्या॑म् । नि॒:ऽम॒थ्यते॑ । वसु॑ । स: । वि॒द्वान् । ज्ये॒ष्ठम् । म॒न्ये॒त॒ । स: । वि॒द्या॒त् । ब्राह्म॑णम् । म॒हत् ॥८.२०॥

पदार्थ : (यः) जो [पुरुष] (वै) निश्चय करके (ते) उन दोनों (अरणी) अरणियों [रगड़ कर अग्नि निकालने की दो लकड़ियों] को (विद्यात्) जान लेवे, (याभ्याम्) जिन दोनों से (वसु) अग्नि (निर्मथ्यते) मथकर निकाला जाता है, (सः) वह (विद्वान्) विद्वान् (ज्येष्ठम्) ज्येष्ठ [सब से बड़े ब्रह्म] को (मन्येत) समझ लेगा, और (सः) वह (महत्) बड़े (ब्राह्मणम्) ब्राह्मण [ब्रह्मज्ञान] को (विद्यात्) जानेगा ॥२०॥"

भावार्थ :

टिप्पणी :२०−(यः) विद्वान् (वै) निश्चयेन (ते) उभे (विद्यात्) जानीयात् (अरणी) अर्त्तिसृधृ०। उ० २।१०२। ऋ गतौ−अनि। अरणी प्रत्यृत एने अग्निः समरणाज्जायत इति वा-निरु० ५।१०। अग्न्युत्पत्तये मथनी द्वे दारुणी (याभ्याम्) अरणिभ्याम् (निर्मथ्यते) मथनेन निःसार्यते (वसु) विभक्तेर्लुक्। वसुः। अग्निः (सः) (विद्वान्) प्राज्ञः (ज्येष्ठम्) महत्तमं ब्रह्म [मन्येत] जानीयात् (सः) (विद्यात्) [ब्राह्मणम्] ब्रह्मणः परमेश्वराज् जातं विज्ञानम् (महत्) पूजनीयम् ॥