Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 8 / 37

यो वि॒द्यात्सूत्रं॒ वित॑तं॒ यस्मि॒न्नोताः॑ प्र॒जा इ॒माः। सूत्रं॒ सूत्र॑स्य॒ यो वि॒द्याद्स वि॑द्या॒द्ब्राह्म॑णं म॒हत् ॥ 37॥

Veda : Atharvaveda | Kand : 10 | Sukta : 8 | Paryay : | Mantra No : 37

In Hindi:

ऋषि : कुत्सः | देवता : आत्मा | छन्द : अनुष्टुप् | स्वर :

विषय : परमात्मा और जीवात्मा के स्वरूप का उपदेश।

पदपाठ : य: । वि॒द्यात् । सूत्र॑म् । विऽत॑तम् । यस्मि॑न् । आऽउ॑ता: । प्र॒ऽजा: । इ॒मा: । सूत्र॑म् । सूत्र॑स्य । य: । वि॒द्यात् । स: । वि॒द्या॒त् । ब्राह्म॑णम् । म॒हत् ॥८.३७॥

पदार्थ : (यः) जो [विवेकी] (विततम्) फैले हुए (सूत्रम्) सूत्र [तागे समान कारण] को (विद्यात्) जान लेवे, (यस्मिन्) जिस सूत वा कारण में (इमाः) यह (प्रजाः) प्रजाएँ [कार्यरूप] (ओताः) ओत-प्रोत हैं। (यः) जो [विवेकी] (सूत्रस्य) सूत्र [कारण] के (सूत्रम्) सूत्र [कारण] को (विद्यात्) जान लेवे, (सः) वह (महत्) बड़े (ब्राह्मणम्) ब्राह्मण [ब्रह्मज्ञान] को (विद्यात्) जान लेवे ॥३७॥"

भावार्थ :

टिप्पणी :३७−(यः) विवेकी (विद्यात्) जानीयात् (सूत्रम्) सिविमुच्योष्टेरू च। उ० ४।१६३। षिवु तन्तुसन्ताने-ष्ट्रन् टेः ऊ च, यद्वा, सूत्र वेष्टने-अच्। कारणरूपं तन्तुम् (विततम्) विस्तृतम् (यस्मिन्) सूत्रे (ओताः) आङ्+वेञ् तन्तुसन्ताने-क्त। परस्परस्यूताः (प्रजाः) सृष्टाः पदार्थाः (इमाः) दृश्यमानाः (सूत्रम्) तन्तुरूपं कारणम् (सूत्रस्य) तन्तुरूपस्य कारणस्य (यः) (विद्यात्) (सः) (विद्यात्) (ब्राह्मणम्) म० २०। ब्रह्मज्ञानम् (महत्) बृहत् ॥