Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 11 / 2 / 30

रु॒द्रस्यै॑लबका॒रेभ्यो॑ऽसंसूक्तगि॒लेभ्यः॑। इ॒दं म॒हास्ये॑भ्यः॒ श्वभ्यो॑ अकरं॒ नमः॑ ॥ 30॥

Veda : Atharvaveda | Kand : 11 | Sukta : 2 | Paryay : | Mantra No : 30

In Hindi:

ऋषि : अथर्वा | देवता : रुद्रः | छन्द : चतुष्पदोष्णिक् | स्वर :

विषय : ब्रह्मज्ञान से उन्नति का उपदेश।

पदपाठ : रु॒द्रस्य॑ । ऐ॒ल॒ब॒ऽका॒रेभ्य॑: । अ॒सं॒सू॒क्त॒ऽगि॒लेभ्य॑: । इ॒दम् । म॒हाऽआ॑स्येभ्य: । श्वऽभ्य॑: । अ॒क॒र॒म् । नम॑: ॥२.३०॥

पदार्थ : (ऐलवकारेभ्यः) लगातार भों-भों ध्वनि करनेवाले (असंसूक्तगिलेभ्यः) अमङ्गल शब्द बोलनेवाले, (महास्येभ्यः) बड़े-बड़े मुँहवाले (श्वभ्यः) कुत्तों के रोकने के लिये (रुदस्य) रुद्र [दुःखनाशक परमेश्वर] को (इदम्) यह (नमः) नमस्कार (अकरम्) मैंने किया है ॥३०॥"

भावार्थ :

टिप्पणी :३०−(रुद्रस्य) चतुर्थ्यर्थे बहुलं छन्दसि। पा० २।३।६२। इति षष्ठी। रुद्राय। दुःखनाशकाय (ऐलवकारेभ्यः) आङ्+इल स्वप्नक्षेपणयोः-घञ्+वण, वण शब्दे-ड+करोतेः-अण्। आक्षेपध्वनिकारकेभ्यः (असंसूक्तगिलेभ्यः) जलिकल्यनिमहि०। उ० १।५४। अ+सम्+सूक्त+गॄ शब्दे-इलच्। असंसूक्तस्य अशुभवचनस्य भाषणशीलेभ्यः (इदम्) (महास्येभ्यः) विशालमुखेभ्यः (श्वभ्यः) क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। इति चतुर्थी। शुनः कुक्कुरान् निवारयितुम् (अकरम्) करोतेर्लुङ्। कृमृदृरुहिभ्यश्छन्दसि। पा० ३।१।५९। च्लेरङ्। अहं कृतवानस्मि ॥