Atharvaveda / 11 / 8 / 28
आस्ते॑यीश्च॒ वास्ते॑यीश्च त्वर॒णाः कृ॑प॒णाश्च॒ याः। गुह्याः॑ शु॒क्रा स्थू॒ला अ॒पस्ता बी॑भ॒त्साव॑सादयन् ॥ 28॥
Veda : Atharvaveda | Kand : 11 | Sukta : 8 | Paryay : | Mantra No : 28
In English:
Seer : kaurupathiH | Devta : adhyaatmam, manyuH | Metre : anuShTup | Tone :
Subject : English Translation will be uploaded as and when ready.
Verse : aasteyiishcha vaasteyiishcha tvaraNaaH kRRipaNaashcha yaaH. guhyaaH shukraa sthuulaa apastaa biibhatsaavasaadayan . 28.
Component Words : aasteyiiH . cha . vaasteyiiH . cha . tvaraNaaH . kRRipaNaaH . cha . yaaH . guhyaaH . shukraaH . sthuulaaH . apaH . taaH . biibhatsau . asaadayan .10.28.
In Hindi:
ऋषि : कौरुपथिः | देवता : अध्यात्मम्, मन्युः | छन्द : अनुष्टुप् | स्वर :
विषय : सब जगत् के कारण परमात्मा का उपदेश।
पदपाठ : आस्ते॑यी: । च॒ । वास्ते॑यी: । च॒ । त्व॒र॒णा: । कृ॒प॒णा: । च॒ । या: । गुह्या॑: । शु॒क्रा: । स्थू॒ला: । अ॒प: । ता: । बी॒भ॒त्सौ । अ॒सा॒द॒य॒न् ॥१०.२८॥
पदार्थ : (आस्तेयीः) अस्ति [रुधिर] में रहनेवाले (च) और (वास्तेयीः) वस्ति [पेड़ू वा मूत्राशय] में रहनेवाले (च) और (त्वरणाः) शीघ्र चलनेवाले (च) और (कृपणाः) दुर्बल [पतले], (स्थूलाः) गाढ़े (गुह्याः) गुहा [शरीर के गुप्त स्थान] में रहनेवाले और (शुक्राः) वीर्य [वा रज] में रहनेवाले (याः) जो [जल हैं], (ताः अपः) उन जलों को (बीभत्सौ) परस्पर बँधे हुए [शरीर] में (असादयन्) उन [ईश्वरनियमों] ने पहुँचाया ॥२८॥"
भावार्थ : टिप्पणी :२८−(आस्तेयीः) वसेस्तिः। उ० ४।१८०। असु क्षेपणे-ति। अस्यते क्षिप्यते या नाडीषु सा अस्तिः, असृग् रक्तम्। दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्। पा० ४।३।५६। अस्ति−ढञ्। तत्र भव इत्यर्थे, ङीप्−च। आस्तेय्यः। रक्ते वर्तमानाः (वास्तेयीः) वस्ति−ढञ् पूर्ववत्। मूत्राधारे नाभेरधोभागे भवाः (च) (त्वरणाः) त्वरया गच्छन्त्यः (कृपणाः) रञ्जेः क्युन्। उ० २।७९। कृप दौर्बल्ये−क्युन्। दुर्बलाः। कृशाः (च) (याः) आपः (गुह्याः) गुहायां गर्ते भवाः (शुक्राः) शुक्रे वीर्ये रजसि वा भवाः (स्थूलाः) घनाः। स्निग्धाः (अपः) जलानि (ताः) पूर्वोक्ताः (बीभत्सौ) मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य। पा० ३।१।६। बध बन्धने-सन् स्वार्थे। सनाशंसभिक्ष उः। पा० ३।२।१६८। उ प्रत्ययः। परस्परसम्बन्धिनि शरीरे (असादयन्) षद्लृ गतौ-णिच्, लङ्। प्रापितवन्तः। प्रेरितवन्तः ॥