Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 11 / 9 / 9

अ॒लिक्ल॑वा जाष्कम॒दा गृध्राः॑ श्ये॒नाः प॑त॒त्त्रिणः॑। ध्वाङ्क्षाः॑ श॒कुन॑यस्तृप्यन्त्व॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ॥ 9॥

Veda : Atharvaveda | Kand : 11 | Sukta : 9 | Paryay : | Mantra No : 9

In Hindi:

ऋषि : काङ्कायनः | देवता : अर्बुदिः | छन्द : पथ्यापङ्क्तिः | स्वर :

विषय : राजा और प्रजा के कर्त्तव्य का उपदेश।

पदपाठ : अ॒लिक्ल॑वा: । जा॒ष्क॒म॒दा: । गृध्रा॑: । श्ये॒ना: । प॒त॒त्रिण॑: । ध्वाङ्क्षा॑: । श॒कुन॑य: । तृ॒प्य॒न्तु॒ । अ॒मित्रे॑षु । स॒म्ऽई॒क्षय॑न् । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.९॥

पदार्थ : (अलिक्लवाः) अपने बल से भय देनेवाले [चील आदि] (जाष्कमदाः) हिंसा में सुख मनानेवाले [सारस आदि], (गृध्राः) खाऊ [गिद्ध], (श्येनाः) श्येन [बाज], (ध्वाङ्क्षाः) कौवे, (शकुनयः) चीलें, (पतत्रिणः) पक्षीगण (तृप्यन्तु) तृप्त होवें, [जिन पक्षियों को] (अमित्रेषु) अमित्रों पर (समीक्षयन्) दिखाता हुआ, तू (अर्बुदे) हे अर्बुदि ! [शूर सेनापति राजन्] (तव) अपने (रदिते) तोड़-फोड़ कर्म में [वर्तमान हो] ॥९॥"

भावार्थ :

टिप्पणी :९−(अलिक्लवाः) अ० ११।२।२। अलिना शक्त्या स्वबलेन भयानकाः पक्षिणः (जाष्कमदाः) इण्भीकापा–०। उ० ३, ४३। जष हिंसायाम्-कन्, छान्दसी वृद्धिः+मदी हर्षे-पचाद्यच्। हिंसने हर्षशीलाः। सारसादयः पक्षिणः (गृध्राः) मांसभक्षकाः खगविशेषाः (श्येनाः) अ० ३।३।३। शीघ्रगतयः पक्षिविशेषाः (पतत्त्रिणः) अ० १।१५।१। पक्षिणः (ध्वाङ्क्षाः) ध्वाक्षि घोरशब्दे-अच्। काकाः (शकुनयः) अ० ७।६४।१। विल्लपक्षिणः (तृप्यन्तु) हृष्यन्तु (अमित्रेषु) शत्रुषु (समीक्षयन्) म० ६−त्वं सम्यग् दर्शयन् यान् पक्षिणः (रदिते) विदारणे, त्वं वर्त्तस्वेति शेषः (अर्बुदे) म० १। हे शूर सेनापते राजन् (तव) स्वकीये ॥