Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 11 / 9 / 23

अर्बु॑दिश्च॒ त्रिष॑न्धिश्चा॒मित्रा॑न्नो॒ वि वि॑ध्यताम्। यथै॑षामिन्द्र वृत्रह॒न्हना॑म शचीपते॒ऽमित्रा॑णां सहस्र॒शः ॥ 23॥

Veda : Atharvaveda | Kand : 11 | Sukta : 9 | Paryay : | Mantra No : 23

In Hindi:

ऋषि : काङ्कायनः | देवता : अर्बुदिः | छन्द : पथ्यापङ्क्तिः | स्वर :

विषय : राजा और प्रजा के कर्त्तव्य का उपदेश।

पदपाठ : अर्बु॑दि: । च॒ । त्रिऽसं॑धि: । च॒ । अ॒मित्रा॑न् । न॒: । वि । वि॒ध्य॒ता॒म् । यथा॑ । ए॒षा॒म् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । हना॑म । श॒ची॒ऽप॒ते॒ । अ॒मित्रा॑णाम् । स॒ह॒स्र॒ऽश: ॥११.२३॥

पदार्थ : (अर्बुदिः) अर्बुदि [शूर सेनापति राजा] (च च) और (त्रिषन्धिः) त्रिसन्धि [तीनों कर्म, उपासना और ज्ञान में मेल अर्थात् प्रीति रखनेवाला विद्वान् पुरुष, आप दोनों] (नः) हमारे (अमित्रान्) शत्रुओं को (वि विध्यताम्) छेद डालें। (यथा) जिससे (वृत्रहन्) हे अन्धकारनाशक ! (शचीपते) वाणियों, कर्मों और बुद्धियों के पालनेवाले (इन्द्र) इन्द्र [बड़े ऐश्वर्यवाले राजन्] (एषाम्) इन (अमित्राणाम्) शत्रुओं को (सहस्रशः) सहस्र-सहस्र करके (हनाम) हम मारें ॥२३॥"

भावार्थ :

टिप्पणी :२३−(अर्बुदिः) म० १। शूरः सेनापतिः राजा (च) (त्रिषन्धिः) त्रिषु कर्मोपासनाज्ञानेषु सन्धिः संयोगः प्रीतिर्यस्य स त्रयीकुशलो विद्वान् पुरुषः (च) (अमित्रान्) (शत्रून्) (नः) अस्माकम् (वि) विविधम् (विध्यताम्) बहु ताडयताम् (यथा) येन प्रकारेण (एषाम्) कर्मणि षष्ठी। इमान् (इन्द्र) हे परमैश्वर्यवन् राजन् (वृत्रहन्) अन्धकारनाशक (हनाम) मारयाम (शचीपते) म० २०। शचीनां वाचां कर्मणां प्रज्ञानां च पालक (अमित्राणाम्) शत्रूणाम् (सहस्रशः) अ० ८।८।१। सहस्रं सहस्रम् ॥