Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 1 / 45

जनं॒ बिभ्र॑ती बहु॒धा विवा॑चसं॒ नाना॑धर्माणं पृथि॒वी य॑थौक॒सम्। स॒हस्रं॒ धारा॒ द्रवि॑णस्य मे दुहां ध्रु॒वेव॑ धे॒नुरन॑पस्फुरन्ती ॥ 45॥

Veda : Atharvaveda | Kand : 12 | Sukta : 1 | Paryay : | Mantra No : 45

In Hindi:

ऋषि : अथर्वा | देवता : भूमिः | छन्द : जगती | स्वर :

विषय : राज्य की रक्षा का उपदेश।

पदपाठ : जन॑म् । बिभ्र॑ती । ब॒हु॒ऽधा । विऽवा॑चसम् । नाना॑ऽधर्माणम् । पृ॒थि॒वी । य॒था॒ऽओ॒क॒सम् । स॒हस्र॑म् । धारा॑: । द्रवि॑णस्य । मे॒ । दु॒हा॒म् । ध्रु॒वाऽइ॑व । धे॒नु: । अन॑पऽस्‍फुरन्ती ॥१.४५॥

पदार्थ : (विवाचसम्) विशेष वचन सामर्थ्यवाले, (नानाधर्माणम्) अनेक गुणवाले (जनम्) जन [मनुष्यसमूह] को (यथौकसम्) स्थान के अनुसार (बहुधा) बहुत प्रकार से (बिभ्रती) धारण करती हुई (पृथिवी) पृथिवी, (ध्रुवा) दृढ़ स्वभाववाली, (अनपस्फुरन्ती) निश्चल (धेनुः इव) गौ के समान, (मे) मेरे लिये (द्रविणस्य) धन की (सहस्रम्) सहस्र (धाराः) धाराएँ (दुहाम्) दुहे ॥४५॥"

भावार्थ :

टिप्पणी :४५−(जनम्) मनुष्यसमूहम् (बिभ्रती) धरन्ती (बहुधा) (विवाचसम्) वि+वचस्−अण्। विशेषेण वचांसि वचनसामर्थ्यानि यस्य तम् (नानाधर्माणम्) बहुगुणवन्तम् (पृथिवी) (यथौकसम्) अव्ययीभावे शरत्प्रभृतिभ्यष्टच्। पा० ५।४।१०७। इति बाहुलकाट् टच्। यथास्थानम्। योग्यतामनुसृत्य (सहस्रम्) बहु (धाराः) प्रवाहान् (द्रविणस्य) धनस्य (मे) मह्यम् (दुहाम्) दुग्धाम्। प्रपूरयतु (ध्रुवा) दृढस्वभावा (इव) यथा (धेनुः) गौः (अनपस्फुरन्ती) अ० ९।१।७। निश्चलन्ती ॥