Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 1 / 57

अश्व॑ इव॒ रजो॑ दुधुवे॒ वि ताञ्जना॒न्य आक्षि॑यन्पृथि॒वीं यादजा॑यत। म॒न्द्राग्रेत्व॑री॒ भुव॑नस्य गो॒पा वन॒स्पती॑नां॒ गृभि॒रोष॑धीनाम् ॥ 57॥

Veda : Atharvaveda | Kand : 12 | Sukta : 1 | Paryay : | Mantra No : 57

In Hindi:

ऋषि : अथर्वा | देवता : भूमिः | छन्द : पुरोऽतिजागता जगती | स्वर :

विषय : राज्य की रक्षा का उपदेश।

पदपाठ : अश्व॑:ऽइव । रज॑: । दु॒धु॒वे॒ । वि । तान् । जना॑न् । ये । आ॒ऽअक्षि॑यन् । पृ॒थि॒वीम् । यात् । आजा॑यत । म॒न्द्रा । अ॒ग्र॒ऽइत्व॑री । भुव॑नस्य । गो॒पा: । वन॒स्पती॑नाम् । गृभि॑: । ओष॑धीनाम् ॥१.५७॥

पदार्थ : (यात्) जब से (अजायत) वह उत्पन्न हुई है [तब से], (अश्वः इव) जैसे घोड़ा (रजः) धूलि को, [वैसे ही] (मन्द्रा) हर्षदायिनी, (अग्रेत्वरी) अग्रगामिनी, (भुवनस्य) संसार की (गोपाः) रक्षाकारिणी, (वनस्पतीनाम्) वनस्पतियों [पीपल आदि] और (ओषधीनाम्) ओषधियों [सोमलता अन्न आदि] की (गृभिः) ग्रहण स्थान उस [पृथिवी] ने (तान् जनान्) उन मनुष्यों को (वि दुधुवे) हिला दिया है, (ये) जिन्होंने (पृथिवीम्) पृथिवी को (आक्षियन्) सताया है ॥५७॥"

भावार्थ :

टिप्पणी :५७−(अश्वः) तुरङ्गः (इव) यथा (रजः) धूलिम् (दुधुवे) धुञ्, धूञ् कम्पने−लिट्। कम्पितवती (वि) विविधम् (तान्) (जनान्) (ये) (आ−अक्षियन्) क्षि क्षये हिंसायां च−लङ्, तुदादित्वं छान्दसम्। अक्षयन्। हिंसितवन्तः (पृथिवीम्) (यात्) यत्कालमारभ्य (अजायत) उत्पन्ना अभूत् (मन्द्राः) स्फायितञ्चि०। उ० २।१३। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु-रक्। मोदयित्री (अग्रेत्वरी) शीङ्क्रुशिरुहिजि०। उ० ४।११४। अग्र+इण् गतौ−क्वनिप्। वनो र च। पा० ४।१।७। ङीब्रेफौ। अग्रगामिनी (भुवनस्य) संसारस्य (गोपाः) गोपायतीति गोपाः, गुपू रक्षणे−विच्, अतो लोपः, यलोपः। रक्षिका (वनस्पतीनाम्) अश्वत्थादिवृक्षाणाम् (गृभिः) भ्रमेः सम्प्रसारणं च। उ० ४।१२१। ग्रह उपादाने−इन्, स च कित्। ग्रहणस्थानम् (ओषधीनाम्) सोमलतान्नादीनाम् ॥