Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 2 / 4

यद्य॒ग्निः क्र॒व्याद्यदि॒ वा व्या॒घ्र इ॒मं गो॒ष्ठं प्र॑वि॒वेशान्यो॑काः। तं माषा॑ज्यं कृ॒त्वा प्र हि॑णोमि दू॒रं स ग॑च्छत्वप्सु॒षदोऽप्य॒ग्नीन् ॥ 4॥

Veda : Atharvaveda | Kand : 12 | Sukta : 2 | Paryay : | Mantra No : 4

In Hindi:

ऋषि : भृगुः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर :

विषय : राजा और प्रजा के कर्तव्य का उपदेश।

पदपाठ : यदि॑। अ॒ग्नि: । क्र॒व्य॒ऽअत् । यदि॑ । वा॒ । व्या॒घ्र: । इ॒मम् । गो॒ऽस्थम् । प्र॒ऽवि॒वेश॑ । अनि॑ऽओका: । तम् । माष॑ऽआज्यम् । कृ॒त्वा । प्र । हि॒णो॒मि॒ । दू॒रम् । स: । ग॒च्छ॒तु॒ । अ॒प्सु॒ऽसद॑: । अपि॑ । अ॒ग्नीन् ॥२.४॥

पदार्थ : (यदि) यदि (क्रव्यात्) मांसभक्षक (अग्निः) अग्नि [समान सन्तापक], (यदि वा) अथवा यदि (अन्योकाः) अपनी माँद से निकले हुए (व्याघ्रः) बाघ [समान दुष्ट पुरुष] ने (इमम्) इस (गोष्ठम्) गोष्ठ [वार्तालाप स्थान] में (प्रविवेश) प्रवेश किया है। (तम्) उस [दुष्ट जन] को (माषाज्यम्) वध के साथ संयुक्त (कृत्वा) करके (दूरम्) दूर (प्र हिणोमि) भेजता हूँ, (सः) वह [दुष्ट] (अप्सुषदः) प्राणों में कष्ट देनेवाले (अग्नीन्) अग्नियों [अग्नि के सन्तापों] को (अपि) ही (गच्छतु) पावे ॥४॥"

भावार्थ :

टिप्पणी :४−(यदि) सम्भावनायाम् (अग्निः) अग्निवत् सन्तापकः (क्रव्यात्) मांसभक्षकः क्रूरः पुरुषः (यदि) (वा) अथवा (व्याघ्रः) व्याघ्रवत् क्रूरः (इमम्) (गोष्ठम्) वाचनालयम् (प्रविवेश) (अन्योकाः) ओकसः स्वविलाद् बहिर्भूतः (तम्) (माषाज्यम्) मष वधे−घञ्+आ+अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु−क्यप्। वधेन हननेन सर्वतः संयुक्तम् (कृत्वा) विधाय (प्र हिणोमि) प्रेरयामि (दूरम्) (सः) (गच्छतु) प्राप्नोतु (अप्सुषदः) अप्सु+षद्लृ विषादे−क्विप्। प्राणेषु विषादयितॄन्। अप्सु=प्राणेषु−दयानन्दभाष्ये, यजुः० ८।२५। (अपि) एव (अग्नीन्) अग्निसन्तापान् ॥