Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 2 / 25

यथाहा॑न्यनुपू॒र्वं भ॑वन्ति॒ यथ॒र्तव॑ ऋ॒तुभि॒र्यन्ति॑ सा॒कम्। यथा॑ न॒ पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूं॑षि कल्पयै॒षाम् ॥ 25॥

Veda : Atharvaveda | Kand : 12 | Sukta : 2 | Paryay : | Mantra No : 25

In Hindi:

ऋषि : भृगुः | देवता : मृत्युः | छन्द : त्रिष्टुप् | स्वर :

विषय : राजा और प्रजा के कर्तव्य का उपदेश।

पदपाठ : यथा॑ । अहा॑नि । अ॒नु॒ऽपू॒र्वम् । भव॑न्ति । यथा॑ । ऋ॒तव॑: । ऋ॒तुऽभि॑: । यन्ति॑ । सा॒कम् । यथा॑ । न । पूर्व॑म् । अप॑र: । जहा॑ति । ए॒व । धा॒त॒: । आयूं॑षि । क॒ल्प॒य॒ । ए॒षाम् ॥२.२५॥

पदार्थ : (यथा) जैसे (अहानि) दिन (अनुपूर्वम्) एक के पीछे एक (भवन्ति) होते रहते हैं, (यथा) जैसे (ऋतवः) ऋतुएँ (ऋतुभिः साकम्) ऋतुओं के साथ (यन्ति) चलते हैं। [वैसे ही] (यथा) जिस कारण से (अपरः) पिछला [पुत्र आदि] (पूर्वम्) पहिले [पिता आदि] को (न) न (जहाति) छोड़े, (एव) उसी कारण से, (धातः) हे विधाता ! [परमेश्वर] (एषाम्) इन के (आयूंषि) जीवनों को (कल्पय) समर्थ कर ॥२५॥"

भावार्थ :

टिप्पणी :२५−(यथा) येन प्रकारेण (अहानि) दिनानि (अनुपूर्वम्) यथाक्रमम्। पूर्वमनुक्रमेण (भवन्ति) वर्तन्ते (यथा) (ऋतवः) वसन्तादयः (ऋतुभिः) (यन्ति) गच्छन्ति (साकम्) सह (यथा) येन कारणेन (न) निषेधे (पूर्वम्) पूर्वकालीनं जनकादिकम् (अपरः) अर्वाक्कालीनः पुत्रादिः (जहाति) त्यजति (एव) तेन कारणेन (धातः) हे विधातः परमेश्वर (आयूंषि) जीवनानि (कल्पय) समर्थय (एषाम्) प्राणिनाम् ॥