Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 2 / 31

इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं स्पृ॑शन्ताम्। अ॑न॒श्रवो॑ अनमी॒वाः सु॒रत्ना॒ आ रो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ ॥ 31॥

Veda : Atharvaveda | Kand : 12 | Sukta : 2 | Paryay : | Mantra No : 31

In Hindi:

ऋषि : भृगुः | देवता : मृत्युः | छन्द : त्रिष्टुप् | स्वर :

विषय : राजा और प्रजा के कर्तव्य का उपदेश।

पदपाठ : इ॒मा: । नारी॑: । अ॒वि॒ध॒वा: । सु॒ऽपत्नी॑: । आ॒ऽअञ्ज॑नेन । स॒र्पिषा॑ । सम् । स्पृ॒श॒न्ता॒म् । अ॒न॒श्रव॑: । अ॒न॒मी॒वा: । सु॒ऽरत्ना॑: । आ । रो॒ह॒न्तु॒ । जन॑य: । योनि॑म् । अग्रे॑ ॥२.३१॥

पदार्थ : (इमाः) यह [विदुषी] (नारीः) नारियाँ (अविधवाः) सधवा [मनुष्योंवाली] और (सुपत्नीः) धार्मिक पतियोंवाली होकर (आञ्जनेन) यथावत् मेल से और (सर्पिषा) घी आदि [सार पदार्थ] से (सं स्पृशन्ताम्) संयुक्त रहें। (अनश्रवः) बिना आसुओंवाली, (अनमीवाः) बिना रोगोंवाली, (सुरत्नाः) सुन्दर-सुन्दर रत्नोंवाली (जनयः) माताएँ (अग्ने) आगे-आगे (योनिम्) मिलने के स्थान [घर, सभा आदि] में (आ रोहन्तु) चढ़ें ॥३१॥"

भावार्थ :

टिप्पणी :३१−(इमाः) विदुष्यः (नारीः) नार्यः (अविधवाः) धूञ् धुञ् वा कम्पने−पचाद्यच्, यद्वा, धावु गतिशुद्ध्योः−पचाद्यच्, ह्रस्वः पृषोदरादित्वात्। धवाः=मनुष्याः−निघ० २।३। विधवा विधातृका भवति विधवनाद्वा विधावनाद्वेति घर्मशिरा अपि वा धव इति मनुष्यनाम तद्वियोगाद् विधवा−निरु० ३।१५। सधवाः। समनुष्याः (सुपत्नीः) धार्मिकपतिकाः (आञ्जनेन) आङ्+अञ्जू म्रक्षणे−ल्युट्। समन्ताद् मेलनेन (सर्पिषा) धृतादिसारपदार्थेन (संस्पृशन्ताम्) संयुक्ता भवन्तु (अनश्रवः) अश्रुवर्जिताः। अरुदत्यः (अनमीवाः) अरोगाः। शारीरिकमानसिकदुःखवर्जिताः (सुरत्नाः) बहुमूल्यधनोपेताः (आ रोहन्तु) अधितिष्ठन्तु (जनयः) जनन्यः मातरः (योनिम्) मिश्रणस्थानम्। गृहम्। समाजम् (अग्रे) प्रधाने स्थाने ॥