Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 2 / 53

अविः॑ कृ॒ष्णा भा॑ग॒धेयं॑ पशू॒नां सीसं॑ क्र॒व्यादपि॑ च॒न्द्रं त॑ आहुः। माषाः॑ पि॒ष्टा भा॑ग॒धेयं॑ ते ह॒व्यम॑रण्या॒न्या गह्व॑रं सचस्व ॥ 53॥

Veda : Atharvaveda | Kand : 12 | Sukta : 2 | Paryay : | Mantra No : 53

In Hindi:

ऋषि : भृगुः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर :

विषय : राजा और प्रजा के कर्तव्य का उपदेश।

पदपाठ : अवि॑: । कृ॒ष्णा । भा॒ग॒ऽधेय॑म् । प॒शू॒नाम् । सीस॑म् । क्र॒व्य॒ऽअत् । अपि॑ । च॒न्द्रम् । ते॒ । आ॒हु॒: । माषा॑: । पि॒ष्टा: । भा॒ग॒ऽधेय॑म‌् । ते॒ । ह॒व्यम् । अ॒र॒ण्या॒न्या: । गह्व॑रम् । स॒च॒स्व॒ ॥२.५३॥

पदार्थ : (कृष्णा) आकर्षण करनेवाली (अविः) रक्षिका प्रकृति [सृष्टि] (पशूनाम्) सब जीवों का (भागधेयम्) सेवनीय पदार्थ है। (क्रव्यात्) हे मांसभक्षक ! [पाप] (ते) तेरे (चन्द्रम्) सुवर्ण को (अपि) भी (सीसम्) सीसा [जस्ता आदि निकृष्ट धातु समान] (आहुः) वे [विद्वान् लोग] बताते हैं। [हे पाप !] (पिष्टाः) चूर्ण किये हुए (माषाः) वध व्यवहार [संग्राम आदि] (ते) तेरा (हव्यम्) ग्राह्य (भागधेयम्) भाग होता है, (अरण्यान्याः) बड़े वन की (गह्वरम्) गुहा का (सचस्व) सेवन कर ॥५३॥"

भावार्थ :

टिप्पणी :५३−(अविः) म० १९। रक्षिका प्रकृतिः। सृष्टिः (कृष्णा) आकर्षणशीला (भागधेयम्) भागः (पशूनाम्) व्यक्तवाचां वाव्यक्तवाचां च जीवानाम्−निरु० ११।२९। (सीसम्) निकृष्टधातुविशेषम् (क्रव्यात्) हे मांसभक्षक पाप (अपि) एव (चन्द्रम्) आह्लादकं सुवर्णम् (ते) तव (आहुः) कथयन्ति विद्वांसः (माषाः) मष वधे−घञ्। वधव्यवहाराः। संग्रामादयः (पिष्टाः) चूर्णिताः (भागधेयम्) भागः (ते) तव (हव्यम्) ग्राह्यम् (अरण्यान्याः) इन्द्रवरुणभवशर्व०। पा० ४।१।४९। अरण्य−ङीप्, आनुक्। महारण्यस्य (गह्वरम्) गुहाम् (सचस्व) षच सम्बन्धे−संबधान। सेवस्व ॥