Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 3 / 19

वि॒श्वव्य॑चा घृ॒तपृ॑ष्ठो भवि॒ष्यन्त्सयो॑निर्लो॒कमुप॑ याह्ये॒तम्। व॒र्षवृ॑द्ध॒मुप॑ यच्छ॒ शूर्पं॒ तुषं॑ प॒लावा॒नप॒ तद्वि॑नक्तु ॥ 19॥

Veda : Atharvaveda | Kand : 12 | Sukta : 3 | Paryay : | Mantra No : 19

In Hindi:

ऋषि : यमः | देवता : स्वर्गः, ओदनः, अग्निः | छन्द : त्रिष्टुप् | स्वर :

विषय : परस्पर उन्नति करने का उपदेश।

पदपाठ : वि॒श्वऽव्य॑चा: । घृ॒तऽपृ॑ष्ठ: । भ॒वि॒ष्यन् । सऽयो॑नि: । लो॒कम् । उप॑ । या॒हि॒ । ए॒तम् । व॒र्षऽवृ॑ध्दम् । उप॑ । य॒च्छ॒ । शूर्प॑म् । तुष॑म् । प॒लावा॑न्। अप॑ । तत् । वि॒न॒क्तु॒ ॥३.१९॥

पदार्थ : [हे विद्वान् !] (विश्वव्यचाः) सब व्यवहारों में फैला हुआ, (घृतपृष्ठः) प्रकाश से सींचता हुआ और (सयोनिः) समान घरवाला (भविष्यन्) भविष्यत् में होता हुआ तू (एतम्) इस (लोकम्) लोक [व्यवहार मण्डल] में (उप याहि) पहुँच। (वर्षवृद्धम्) वरणीय गुणों से बढ़े हुए (शूर्पम्) सूप को (उप यच्छ) ले, (तत्) तब [आप] (तुषम्) बुसी और (पलावान्) तिनके आदि को (अप विनक्तु) फटक डालें ॥१९॥"

भावार्थ :

टिप्पणी :१९−(विश्वव्यचाः) सर्वव्यवहारेषु विस्तारशीलः (घृतपृष्ठः) अ० २।१३।१। पृषु सेके−थक्। घृतेन प्रकाशेन सेचकः (भविष्यन्) भविष्यति भवन् (सयोनिः) योनिर्गृहनाम−निघ० ३।४। समानगृहः (लोकम्) समाजम् (उप याहि) प्राप्नुहि (एतम्) (वर्षवृद्धम्) अ० ६।३–०।३। वृञ्−वरणे स प्रत्ययः। वर्षैर्वरणीयगुणैः प्रवृद्धम् (उप यच्छ) यमु उपरमे। गृहाण (शूर्पम्) शूर्प माने−घञ्। धान्यस्फोटकम् (तुषम्) धान्यत्वचम् (पलावान्) पल गतौ रक्षणे च−अप्+अव रक्षणे गतौ च−अण्। पलान् शस्यशून्यधान्यनालान् अवन्ति प्राप्नुवन्ति ये ते पलावास्तान् तृणादीन् पदार्थान् (तत्) तदा (अपविनक्तु) विजिर् पृथग्भावे। वियोजयतु भवान् ॥