Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 3 / 38

उपा॑स्तरी॒रक॑रो लो॒कमे॒तमु॒रुः प्र॑थता॒मस॑मः स्व॒र्गः। तस्मि॑ञ्छ्रयातै महि॒षः सु॑प॒र्णो दे॒वा ए॑नं दे॒वता॑भ्यः॒ प्र य॑च्छान् ॥ 38॥

Veda : Atharvaveda | Kand : 12 | Sukta : 3 | Paryay : | Mantra No : 38

In Hindi:

ऋषि : यमः | देवता : स्वर्गः, ओदनः, अग्निः | छन्द : त्रिष्टुप् | स्वर :

विषय : परस्पर उन्नति करने का उपदेश।

पदपाठ : उप॑ । अ॒स्त॒री॒: । अक॑र: । लो॒कम् । ए॒तम् । उ॒रु: । प्र॒थ॒ता॒म् । अस॑म: । स्व॒:ऽग: । तस्मि॑न् । श्र॒या॒तै॒ । म॒हि॒ष: । सु॒ऽप॒र्ण: । दे॒वा: । ए॒न॒म् । दे॒वता॑भ्य: । प्र । य॒च्छा॒न् ॥३.३८॥

पदार्थ : [हे विद्वान् !] तूने (एतम्) इस [पुरुष] को (उप अस्तरीः) बढ़ाया और (लोकम्) दर्शनीय (अकरः) बनाया है, (उरुः) विस्तृत (असमः) व्याकुलतारहित (स्वर्गः) सुख पहुँचानेवाला व्यवहार (प्रथताम्) बढ़े। (तस्मिन्) उस [सुखव्यवहार] में (महिषः) महान् (सुपर्णः) बड़ी पूर्तिवाला [वह पुरुष] (श्रयातै) आश्रय लेवे, (देवाः) विद्वान् लोग (एनम्) इस [सुखव्यवहार] को (देवताभ्यः) आनन्दों के लिये (प्र यच्छान्) देवें ॥३८॥"

भावार्थ :

टिप्पणी :३८−(उप अस्तरीः) विस्तारितवानसि (अकरः) कृतवानसि (लोकम्) दर्शनीयम् (एतम्) पुरुषम् (उरुः) विस्तीर्णः (प्रथताम्) प्रख्यातो भवतु (असमः) षम वैकल्ये−अच्। वैकल्यरहितः (स्वर्गः) सुखप्रापको व्यवहारः (तस्मिन्) सुखव्यवहारे (श्रयातै) श्रिञ् सेवायाम्−लेट्। श्रयतु। सेवताम् (महिषः) अविमह्योष्टिषच्। उ० १।४५। मह पूजायाम्−टिषच्। महान्। पूजनीयः (सुपर्णः) पॄ पालनपूरणयोः−न। बहुपूर्तिमान् (देवाः) विद्वांसः (एनम्) सुखव्यवहारम् (देवताभ्यः) मोदानां प्राप्तये (प्र यच्छान्) लेटि रूपम्। प्र यच्छन्तु। ददतु ॥