Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 3 / 44

आ॑दि॒त्येभ्यो॒ अङ्गि॑रोभ्यो॒ मध्वि॒दं घृ॒तेन॑ मि॒श्रं प्रति॑ वेदयामि। शु॒द्धह॑स्तौ ब्राह्मण॒स्यानि॑हत्यै॒तं स्व॒र्गं सु॑कृता॒वपी॑तम् ॥ 44॥

Veda : Atharvaveda | Kand : 12 | Sukta : 3 | Paryay : | Mantra No : 44

In Hindi:

ऋषि : यमः | देवता : स्वर्गः, ओदनः, अग्निः | छन्द : पराबृहती त्रिष्टुप् | स्वर :

विषय : परस्पर उन्नति करने का उपदेश।

पदपाठ : आ॒दि॒त्येभ्य॑: । अङ्गि॑र:ऽभ्य: । मधु॑ । इ॒दम् । घृ॒तेन॑ । मि॒श्रम् । प्रति॑ । वे॒द॒या॒मि॒ । शु॒ध्दऽह॑स्तौ । ब्रा॒ह्म॒णस्य॑ । अनि॑ऽहत्य । ए॒तम् । स्व॒:ऽगम् । सु॒ऽकृ॒तौ । अपि॑ । इ॒त॒म् ॥३.४४॥

पदार्थ : (आदित्येभ्यः) अखण्ड ब्रह्मचारी (अङ्गिरोभ्यः) ऋषियों के लिये (घृतेन) सार [तत्त्वज्ञान] से (मिश्रम्) मिले हुए (इदम्) इस (मधु) विज्ञान [मधुविद्या] को (प्रति वेदयामि) मैं [ईश्वर] जताये देता हूँ [हे पति-पत्नी !] तुम दोनों (शुद्धहस्तौ) शुद्ध हाथोंवाले और (सुकृतौ) सुकर्मी होकर (ब्राह्मणस्य) वेद वा ब्रह्माण्ड के स्वामी [परमेश्वर] के (एतम्) इस (स्वर्गम्) सुख पहुँचानेवाले व्यवहार को (अनिहत्य) नष्ट न करके [सदा मानकर] (अपि इतम्) चलते चलो ॥४४॥"

भावार्थ :

टिप्पणी :४४−(आदित्येभ्यः) म० ४३। अखण्डब्रह्मचारिभ्यः (अङ्गिरोभ्यः) म० ४३। ऋषिभ्यः (मधु) विज्ञानम् (इदम्) (घृतेन) सारेण। तत्त्वज्ञानेन (मिश्रम्) संयुक्तम् (प्रति) प्रत्यक्षम् (वेदयामि) विज्ञापयामि (शुद्धहस्तौ) पवित्रहस्तकर्माणौ (ब्राह्मणस्य) ब्रह्म−अण्। ब्रह्मणो वेदस्य ब्रह्माण्डस्य वा स्वामिनः परमेश्वरस्य (अनिहत्य) अनाशयित्वा (एतम्) (स्वर्गम्) सुखप्रापकं व्यवहारम् (सुकृतौ) धर्मकर्माणौ (अपि) अवधारणे (इतम्) गच्छतम् ॥