Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 4 / 28

यो अ॑स्या॒ ऋच॑ उप॒श्रुत्याथ॒ गोष्वची॑चरत्। आयु॑श्च॒ तस्य॒ भूतिं॑ च दे॒वा वृ॑श्चन्ति हीडि॒ताः ॥ 28॥

Veda : Atharvaveda | Kand : 12 | Sukta : 4 | Paryay : | Mantra No : 28

In Hindi:

ऋषि : कश्यपः | देवता : वशा | छन्द : अनुष्टुप् | स्वर :

विषय : वेदवाणी के प्रकाश करने के श्रेष्ठ गुणों का उपदेश।

पदपाठ : य: । अ॒स्या॒: । ऋच॑: । उ॒प॒ऽश्रुत्य॑ । अथ॑ । गोषु॑ । अची॑चरत् । आयु॑: । च॒ । तस्य॑ । भूति॑म् । च॒ । दे॒वा: । वृ॒श्च॒न्ति॒ । ही॒डि॒ता: ॥४.२८॥

पदार्थ : (अथ) यदि (यः) जिस [मनुष्य] ने (अस्याः) इस (ऋचः) स्तुतियोग्य वेदवाणी का (उपश्रुत्य) यथाविधि श्रवण करके (गोषु) इन्द्रियों में [इन्द्रियों के कुविषयों में अपने को] (अचीचरत्) चलाया है। (देवाः) देवता [विद्वान् लोग] (हीडिताः) क्रुद्ध होकर (तस्य) उस [पुरुष] का (आयुः) जीवन (च) और (भूतिम्) ऐश्वर्य (च) भी (वृश्चन्ति) काट देते हैं ॥२८॥"

भावार्थ :

टिप्पणी :२८−(यः) पुरुषः (अस्याः) (ऋचः) स्तुत्याया वेदवाण्याः (उपश्रुत्य) यथाविधि श्रवणं कृत्वा (अथ) यदि (गोषु) इन्द्रियेषु। इन्द्रियाणां कुविषयेषु (अचीचरत्) चर गतिभक्षणयोः−णिच्, लुङ्। आत्मानं चालितवान् (आयुः) जीवनम् (च) (तस्य) पुरुषस्य (भूतिम्) ऐश्वर्यम् (च) अपि (देवाः) विद्वांसः (वृश्चन्ति) छिन्दन्ति (हीडिताः) हेडृ अनादरे क्रोधे च−क्त, ईकारश्छान्दसः। हेडते क्रुध्यतिकर्मा−निघ० २।१२। क्रुद्धाः सन्तः ॥