Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 13 / 1 / 5

आ ते॑ रा॒ष्ट्रमि॒ह रोहि॑तोऽहार्षी॒द्व्या᳡स्थ॒न्मृधो॒ अभ॑यं ते अभूत्। तस्मै॑ ते द्यावापृथि॒वी रे॒वती॑भिः॒ कामं॑ दुहाथामि॒ह शक्व॑रीभिः ॥ 5॥

Veda : Atharvaveda | Kand : 13 | Sukta : 1 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : ब्रह्मा | देवता : अध्यात्मम्, रोहितः, आदित्यः | छन्द : जगती | स्वर :

विषय : जीवात्मा और परमात्मा का उपदेश।

पदपाठ : आ । ते॒ । रा॒ष्ट्रम् । इ॒ह । रोहि॑त: । अ॒हा॒र्षी॒त् । वि । आ॒स्थ॒त् । मृध॑: । अभ॑यम् । ते॒ । अ॒भू॒त् । तस्मै॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । रे॒वती॑भि: । काम॑म् । दु॒हा॒था॒म् । इ॒ह । शक्व॑रीभि: ॥१.५॥

पदार्थ : [हे मनुष्य !] (रोहितः) सबका उत्पन्न करनेवाला [परमेश्वर] (ते) तेरे (राष्ट्रम्) राज्य को (इह) यहाँ [संसार में] (आ अहार्षीत्) लाया है और उसने (मृधः) हिंसक [शत्रुओं] को (वि आस्थत्) गिरा दिया है, (ते) तेरे लिये (अभयम्) अभय (अभूत्) हो गया है। (तस्मै ते) उस तेरे लिये (द्यावापृथिवी) सूर्य्य और पृथिवी दोनों (रेवतीभिः) धनवाली (शक्वरीभिः) शक्तियों के साथ (कामम्) कामना को (इह) यहाँ [इस राज्य में] (दुहाथाम्=०−ताम्) पूरी करें ॥५॥"

भावार्थ :

टिप्पणी :५−(ते) तव (राष्ट्रम्) राज्यम् (इह) संसारे (रोहितः) म० १। सर्वोत्पादकः परमेश्वरः (आ अहार्षीत्) आनीतवान् (वि) पृथग्भावे (आस्थत्) असु क्षेपणे-लुङ्। क्षिप्तवान् (मृधः) मृधु उन्दने हिंसायां च-क्विप्। हिंसकान्। शत्रून् (अभयम्) भयराहित्यम् (ते) तुभ्यम् (अभूत्) (तस्मै) तथाभूताय (ते) तुभ्यम् (द्यावापृथिवी) सूर्य्यभूमी (रेवतीभिः) अ० ३।४।७। धनवतीभिः (कामम्) कामनाम् (दुहाथाम्) तकारस्य थः। दुहाताम्। पूरयताम् (इह) राज्ये (शक्वरीभिः) अ० ३।१३।७। शक्लृ शक्तौ-वनिप्। शक्तिभिः ॥