Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 13 / 3 / 16

शु॒क्रं व॑हन्ति॒ हर॑यो रघु॒ष्यदो॑ दे॒वं दि॒वि वर्च॑सा॒ भ्राज॑मानम्। यस्यो॒र्ध्वा दिवं॑ त॒न्व१॒॑स्तप॑न्त्य॒र्वाङ्सु॒वर्णैः॑ पट॒रैर्वि भाति॑। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥ 16॥

Veda : Atharvaveda | Kand : 13 | Sukta : 3 | Paryay : | Mantra No : 16

In Hindi:

ऋषि : ब्रह्मा | देवता : रोहितः, आदित्यः, अध्यात्मम् | छन्द : चतुरवसानाष्टपदाकृतिः | स्वर :

विषय : परमात्मा और जीवात्मा का उपदेश।

पदपाठ : शु॒क्रम् । व॒ह॒न्ति॒ । हर॑य: । र॒घु॒ऽस्यद॑: । दे॒वम् । दि॒वि । वर्च॑सा । भ्राज॑मानम् । यस्य॑ । ऊ॒र्ध्वा: । दिव॑म् । त॒न्व᳡: । तप॑न्ति । अ॒र्वाङ् । सु॒ऽवर्णै॑: । प॒ट॒रै: । वि । भा॒ति॒ । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्ष‍ि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न्। ॥२.१६॥

पदार्थ : (रघुष्यदः) शीघ्रगामी (हरयः) अज्ञाननाशक मनुष्य (शुक्रम्) वीर्यवान्, (देवम्) ज्ञानवान्, (दिवि) प्रत्येक व्यवहार में (वर्चसा) तेज से (भ्राजमानम्) प्रकाशमान [परमेश्वर] को (वहन्ति) पाते हैं। (यस्य) जिस [परमेश्वर] के (ऊर्ध्वाः) ऊँचे (तन्वः) उपकार (दिवम्) सूर्य को (तपन्ति) तपाते हैं, (अर्वाङ्) समीपवर्ती वह (सुवर्णैः) बड़े श्रेष्ठ (पटरैः) प्रकाशों के साथ (वि भाति) चमकता जाता है। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये (एतत्) यह (आगः) अपराध है, [कि] (यः) जो मनुष्य (एवम्) ऐसे (विद्वांसम्) विद्वान् (ब्राह्मणम्) ब्राह्मण [वेदज्ञाता] को (जिनाति) सताता है। (रोहित) हे सर्वोत्पादक [परमेश्वर !] [उस शत्रु को] (उद् वेपय) कंपा दे, (प्र (क्षिणीहि) नाश कर दे, (ब्रह्मज्यस्य) ब्रह्मचारी के सतानेवाले के (पाशान्) फन्दों को (प्रति मुञ्च) बाँध दे ॥१६॥"

भावार्थ :

टिप्पणी :१६−(शुक्रम्) अर्शआद्यच्। वीर्यवन्तम् (वहन्ति) प्राप्नुवन्ति (हरयः) हरयो मनुष्यनाम-निघ० २।३। अज्ञाननाशका मनुष्याः (रघुष्यदः) शीघ्रगामिनः (देवम्) ज्ञानिनम् (दिवि) व्यवहारे (वर्चसा) तेजसा (भ्राजमानम्) दीप्यमानम् (यस्य) परमेश्वरस्य (ऊर्ध्वाः) उन्नताः (दिवम्) सूर्यम् (तन्वः) तन उपकारे-ऊ प्रत्ययः। उपकृतयः (तपन्ति) तापयन्ति (अर्वाङ्) समीपवर्ती परमेश्वरः (सुवर्णैः) सुवरणीयैः (पटरैः) अर्त्तिकमिभ्रमिचमि०। उ० ३।१३२। पट गतौ, दीप्तौ वेष्टने च-अर प्रत्ययः। प्रकाशैः (वि) विविधम् (भाति) दीप्यते ॥