Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 13 / 3 / 19

अ॑ष्ट॒धा यु॒क्तो वह॑ति॒ वह्नि॑रु॒ग्रः पि॒ता दे॒वानां॑ जनि॒ता म॑ती॒नाम्। ऋ॒तस्य॒ तन्तुं॒ मन॑सा मि॒मानः॒ सर्वा॒ दिशः॑ पवते मात॒रिश्वा॑। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥ 19॥

Veda : Atharvaveda | Kand : 13 | Sukta : 3 | Paryay : | Mantra No : 19

In Hindi:

ऋषि : ब्रह्मा | देवता : रोहितः, आदित्यः, अध्यात्मम् | छन्द : चतुरवसानाष्टपदा भुरिगाकृतिः | स्वर :

विषय : परमात्मा और जीवात्मा का उपदेश।

पदपाठ : अ॒ष्ट॒ऽअधा । यु॒क्त: । व॒ह॒ति॒ । वह्नि॑: । उ॒ग्र: । पि॒ता । दे॒वाना॑म् । ज॒नि॒ता । म॒ती॒नाम् । ऋ॒तस्य॑ । तन्तु॑म् । मन॑सा । मि॒मान॑: । सर्वा॑: । दिश॑: । प॒व॒ते॒ । मा॒त॒रिश्वा॑ । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्ष‍ि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.१९॥

पदार्थ : (अष्टधा) आठ प्रकार से [यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान और समाधि−योग के आठ अङ्गों द्वारा] (युक्तः) ध्यान किया गया, (उग्रः) प्रचण्ड (वह्निः) ले चलनेवाला, (देवानाम्) गतिमान् [पृथिवी आदि] लोकों का (पिता) पिता [रक्षक] और (मतीनाम्) बुद्धिमानों का (जनिता) उत्पन्न करनेवाला [परमेश्वर, संसार को] (वहति) ले चलता है। (ऋतस्य) सत्यज्ञान के (तन्तुम्) ताँते [श्रेणी] को (मनसा) अपने विज्ञान से (मिमानः) नापता हुआ, (मातरिश्वा) आकाश में गतिवाला [परमेश्वर] (सर्वाः) सब (दिशः) दिशाओं में (पवते) चलता है [व्यापता है]। (तस्य) उस (क्रुद्धस्य) क्रुद्ध (देवस्य) प्रकाशमान [ईश्वर] के लिये (एतत्) यह (आगः) अपराध है, [कि] (यः) जो मनुष्य (एवम्) ऐसे (विद्वांसम्) विद्वान् (ब्राह्मणम्) ब्राह्मण [वेदज्ञाता] को (जिनाति) सताता है। (रोहित) हे सर्वोत्पादक [परमेश्वर !] [उस शत्रु को] (उद् वेपय) कंपा दे, (प्र (क्षिणीहि) नाश कर दे, (ब्रह्मज्यस्य) ब्रह्मचारी के सतानेवाले के (पाशान्) फन्दों को (प्रति मुञ्च) बाँध दे ॥१९॥"

भावार्थ :

टिप्पणी :१९−(अष्टधा) अष्टप्रकारेण। यमनियमासनप्राणायामप्रत्याहरधारणाध्यानसमाधयोऽष्टावङ्गानि−योगदर्शने २।२९। (युक्तः) ध्यातः (वहति) गमयति लोकान् (वह्निः) वाहकः (उग्रः) प्रचण्डः (पिता) रक्षकः (देवानाम्) गतिमतां पृथिव्यादिलोकानाम् (जनिता) उत्पादकः (मतीनाम्) मेधाविनाम्-निघ० ३।१५। (ऋतस्य) सत्यज्ञानस्य (तन्तुम्) श्रेणिम्। विस्तारम् (मनसा) विज्ञानेन (मिमानः) मानं कुर्वाणः (सर्वाः) (दिशः) (पवते) गच्छति-निघ० २।१४। व्याप्नोति (मातरिश्वा) मातरि आकाशे श्वयति गच्छति व्याप्नोति यः परमेश्वरः ॥