Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 14 / 1 / 57

अ॒हं विष्या॑मि॒मयि॑ रू॒पम॑स्या॒ वेद॒दित्प॑श्य॒न्मन॑सः कु॒लाय॑म्। न स्तेय॑मद्मि॒मन॒सोद॑मुच्ये स्व॒यं श्र॑थ्ना॒नो वरु॑णस्य॒ पाशा॑न् ॥57॥

Veda : Atharvaveda | Kand : 14 | Sukta : 1 | Paryay : | Mantra No : 57

In Hindi:

ऋषि : सवित्री, सूर्या | देवता : आत्मा | छन्द : त्रिष्टुप् | स्वर :

विषय : विवाह संस्कार का उपदेश।

पदपाठ : अ॒हम् । वि । स्या॒मि॒ । मयि॑ । रू॒पम् । अ॒स्या॒: । वेद॑त् । इत् । पश्य॑न् । मन॑स: । कु॒लाय॑म् । न । स्तेय॑म् । अ॒द्मि॒ । मन॑सा । उत् । अ॒मु॒च्ये॒ । स्व॒यम् । अ॒श्ना॒न: । वरु॑णस्य । पाशा॑न् ॥१.५७॥

पदार्थ : (अस्याः) इस [पत्नी]के (रूपम्) रूप [स्वभाव वा सौन्दर्य] को (मनसः) अपने मन का (कुलायम्) आधार (वेदत्) जानता हुआ और (पश्यन्) देखता हुआ (इत्) ही (अहम्) मैं [वर] (मयि) अपनेमें (वि ष्यामि) निश्चय करके धारण करता हूँ। (स्तेयम्) चोरी के पदार्थ को (न)नहीं (अद्मि) खाता हूँ, (मनसा) विज्ञान के साथ (वरुणस्य) रुकावट [अर्थात् विघ्न]के (पाशान्) फन्दों को (स्वयम्) अपने आप [अर्थात् पुरुषार्थ से] (श्रथ्नानः)ढीला करता हुआ (उत् अमुच्ये) मैं छूट गया हूँ ॥५७॥"

भावार्थ :

टिप्पणी :५७−(अहम्) वरः (वि ष्यामि) व्यवसायेन निश्चयेनधारयामि (मयि) आत्मनि (रूपम्) स्वभावम्। सौन्दर्यम् (अस्याः) पत्न्याः (वेदत्)विदन्। जानन् (इत्) एव (पश्यन्) अवलोकयन् (मनसः) अन्तःकरणस्य (कुलायम्) आधारम् (न) निषेधे (स्तेयम्) स्तेन-यत्, नलोपः। चौर्यपदार्थम् (अद्मि) भक्षयामि (मनसा)विज्ञानेन (उत्) उत्कर्षेण (अमुच्ये) मुक्तोऽस्मि (स्वयम्) आत्मना। पुरुषार्थेन (श्रथ्नानः) शिथिलीकुर्वन् (वरुणस्य) आवरणस्य। विघ्नस्य (पाशान्) बन्धान् ॥