Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 14 / 2 / 14

आ॑त्म॒न्वत्यु॒र्वरा॒ नारी॒यमाग॒न्तस्यां॑ नरो वपत॒ बीज॑मस्याम्। सा वः॑प्र॒जां ज॑नयद्व॒क्षणा॑भ्यो॒ बिभ्र॑ती दु॒ग्धमृ॑ष॒भस्य॒ रेतः॑ ॥14॥

Veda : Atharvaveda | Kand : 14 | Sukta : 2 | Paryay : | Mantra No : 14

In Hindi:

ऋषि : सवित्री, सूर्या | देवता : आत्मा | छन्द : त्रिष्टुप् | स्वर :

विषय : गृहआश्रम का उपदेश।

पदपाठ : आ॒त्म॒न्ऽवती॑ । उ॒र्वरा॑ । नारी॑ । इ॒यम् । आ । अ॒ग॒न् । तस्या॑म् । न॒र॒: । व॒प॒त॒ । बीज॑म् । अ॒स्या॒म् । सा । व॒: । प्र॒ऽजाम् । ज॒न॒य॒त् । व॒क्षणा॑भ्य: । बिभ्र॑ती । दु॒ग्धम् । ऋ॒ष॒भस्य॑ । रेत॑: ॥२.१४॥

पदार्थ : (आत्मन्वती) आत्मा [भीतरी बल] वाली (उर्वरा) उपजाऊ धरती [के समान], (इयम्) यह (नारी) नारी [नर कीपत्नी] (आ अगन्) आयी है, (नरः) हे नर ! [वर] (तस्याम्) उस (अस्याम्) ऐसी [गुणवतीवधू] में (बीजम्) बीज (वपत) बो। (सा) वह [नारी] (ऋषभस्य) वीर्यवान् पुरुष के (दुग्धम्) दूध समान (रेतः) वीर्य को (बिभ्रती) धारण करती हुई (वक्षणाभ्यः) अपनेपेट की नाड़ियों से (वः) तेरे लिये (प्रजाम्) सन्तान (जनयत्) उत्पन्न करे ॥१४॥"

भावार्थ :

टिप्पणी :१४−(आत्मन्वती) आभ्यन्तरशक्तियुक्ता (उर्वरा) शस्योत्पादनयोग्या भूमिर्यथा, (नारी) नरस्य पत्नी (इयम्) वधूः (आ अगन्) आगमत् (तस्याम्) नार्याम् (नरः) सुपांसुपो भवन्ति। वा० पा० ७।१।३९। एकवचनस्य बहुवचनम्। हे नः। नायक (वपत) तिङां तिङोभवन्ति। वा० पा० ७।१।३९। एकवचनस्य बहुवचनम्। वप। प्रक्षिप (बीजम्) (अस्याम्)ईदृश्यां गुणवत्याम् (सा) (वः) पूर्ववद्बहुवचनम्। तुभ्यम् (प्रजाम्) सन्तानम् (जनयत्) जनयेत् (वक्षणाभ्यः) वक्षःस्थलेभ्यः। उदरनाडीभ्यः (बिभ्रती) धारयन्ती (दुग्धम्) क्षीरतुल्यम् (ऋषभस्य) वीर्यवतः पुरुषस्य (रेतः) वीर्यम् ॥