Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 14 / 2 / 72

ज॑नि॒यन्ति॑ना॒वग्र॑वः पुत्रि॒यन्ति॑ सु॒दान॑वः। अरि॑ष्टासू सचेवहि बृह॒ते वाज॑सातये॥72॥

Veda : Atharvaveda | Kand : 14 | Sukta : 2 | Paryay : | Mantra No : 72

In Hindi:

ऋषि : सवित्री, सूर्या | देवता : आत्मा | छन्द : अनुष्टुप् | स्वर :

विषय : गृहआश्रम का उपदेश।

पदपाठ : ज॒नि॒ऽयन्ति॑ । नौ॒ । अग्र॑व: । पु॒त्रि॒ऽयन्ति॑ । सु॒ऽदान॑व: । अरि॑ष्टासू॒ इत्यरि॑ष्टऽअसू । स॒चे॒व॒हि॒ । बृ॒ह॒ते । वाज॑ऽसातये ॥२.७२॥

पदार्थ : (अग्रवः) उद्योगी, (सुदानवः) बड़े दानी लोग (नौ) हम दोनों के लिये (जनियन्ति) जनों [भक्तजनों] कोचाहते हैं और (पुत्रियन्ति) पुत्रों को चाहते हैं। (अरिष्टासू) बिना नाश कियेहुए प्राणोंवाले [सदा पुरुषार्थी] हम दोनों (बृहते) बड़े (वाजसातये) विज्ञान, बल और अन्न के दान के लिये (सचेवहि) सदा मिले रहें ॥७२॥"

भावार्थ :

टिप्पणी :७२−(जनियन्ति) सुप आत्मनः क्यच्। पा० ३।१।८। जन-क्यच्।अपुत्रादीनामिति वक्तव्यम्। वा० पा० ७।४।३५। इति प्राप्तस्य ईत्वस्य छान्दसोह्रस्वः। जनीयन्ति जनान् भक्तजनान् इच्छन्ति (नौ) आवाभ्याम् (अग्रवः)रुशातिभ्यां क्रुन्। उ० ४।१०३। अग गतौ−क्रुन्। गन्तारः। उद्योगिनः (पुत्रियन्ति) पुत्र-क्यचि, ईत्वस्य छान्दसो ह्रस्वः। पुत्रीयन्ति। पुत्रान्इच्छन्ति (सुदानवः) सुदानिनः (अरिष्टासू) रिष हिंसायाम्-क्त। अहिंसितप्राणौ।महापुरुषार्थिनौ (सचेवहि) षच समवाये विधिलिङ्। नित्यसम्बन्धिनौ भवेम (बृहते)महते (वाजसातये) वाजानां विज्ञानबलान्नानां दानाय ॥