Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 17 / 1 / 1

वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्। सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्। ईड्यं॒ नाम॑ ह्व॒ इन्द्र॒मायु॑ष्मान्भूयासम् ॥1॥

Veda : Atharvaveda | Kand : 17 | Sukta : 1 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : ब्रह्मा | देवता : आदित्य | छन्द : त्र्यवसाना षट्पदा जगती | स्वर :

विषय : आयु की बढ़ती के लिये उपदेश।

पदपाठ : वि॒ऽस॒स॒हिम् । सह॑मानम् । स॒स॒हा॒नम् । सही॑यांसम् । सह॑मानम् । स॒ह॒:ऽजित॑म् । स्व॒:ऽजित॑म् । गो॒ऽजित॑म् । सं॒ध॒न॒ऽजित॑म् । ईड्य॑म् । नाम॑ । ह्वे॒ । इन्द्र॑म् । आयु॑ष्मान् । भू॒या॒स॒म् ॥१.१॥

पदार्थ : (विषासहिम्) विशेषहरानेवाले, (सहमानम्) दबा लेते हुए, (सासहानम्) दबा चुकनेवाले, (सहीयांसम्)अत्यन्त शक्तिवाले, (सहमानम्) वश में करते हुए, (सहोजितम्) बलवान् के जीतनेवाले, (स्वर्जितम्) स्वर्ग जीतनेवाले, (गोजितम्) भूमि जीतनेवाले, (संधनजितम्) पूरा धनजीतनेवाले, (ईड्यम्) बड़ाई योग्य (इन्द्रम्) इन्द्र [परम ऐश्वर्यवाले जगदीश्वर]को (नाम) नाम से (ह्वे) मैं पुकारता हूँ, (आयुष्मान्) बड़े आयुवाला (भूयासम्)मैं हो जाऊँ ॥१॥"

भावार्थ :

टिप्पणी :१−(विषासहिम्) षह अभिभवे शक्तौ च यङि-कि प्रत्ययः। विशेषेणाभिभवितारम् (सहमानम्) ताच्छील्यवयोवचनशक्तिषु चानश्। पा० ३।२।१२९। सहेश्चानश्। अभिभवन् (सासहानम्) सहेर्लिटः कानच्, छान्दसो दीर्घः। पूर्वमपि अभिभवितारम् (सहीयांसम्)तुश्छन्दसि। पा० ५।३।५९। सोढृ-ईयसुन्। तुरिष्ठेमेयःसुः। पा० ६।४।१५४। तृलोपः।शक्तिमत्तरम् (सहमानम्) वशीकुर्वन् (सहोजितम्) बलवतो जेतारम् (स्वर्जितम्)स्वर्गस्य जेतारम् (गोजितम्) भूमेर्जेतारम् (संधनजितम्) सांहितिको दीर्घः।सम्यग् धनस्य सम्पूर्णसुवर्णादिलक्षणस्य जेतारम् (ईड्यम्) स्तुत्यम् (नाम)प्रसिद्धौ। नाम्ना (ह्वे) हुवे। आह्वयामि (इन्द्रम्) परमैश्वर्यवन्तं जगदीश्वरम् (आयुष्मान्) दीर्घजीवनयुक्तः (भूयासम्) भवेयम् ॥